________________
॥ श्रीन्यायसिन्धुः ॥ नो सर्वथाऽवयवरूपतयैव जैनैः, कुम्भादयोऽवयविनोऽभिमतास्तथात्वे । अर्थक्रियामतिवचांसि विभेदतो न, स्युर्वो मतेऽवयविनोऽवयवाद्यतोऽत्र ।।६७३।। शक्त्याऽऽत्मना च महदाद्यपि मानमासीत्, कुम्भात्मकाणुनिचयेषु मते जिनानाम् । नैवाऽसतो हि शशशृङ्गवदेव जन्मा - ऽभीष्टं ततो भवति चेतनता न भूते ।।६७४।। भिन्नं न चाऽस्त्यणुचयान्महदादि मानं, स्याद्वादवाद्यभिमतं च कथञ्चिदेव । तत्प्रक्रिया तव मते घटते न चैका - न्तोच्छेदभीतित इति प्रविचारयाऽन्तः ।।६७५।। देहे तु चेतनतयाऽभ्युपगम्यमाने, व्यासज्यवृत्तिरिह चेतनताऽन्यथा वा । आद्ये बहुत्वमिव नाऽणुचयात्मकेऽस्मिन्, कस्याऽप्यणोर्विगमतो ननु सा तव स्यात् ।।६७६।। अन्त्ये कथं न बहवोऽभ्युपगम्यमाना - स्तत्तच्छरीरनियता मतिगोचराः स्युः । ऐक्यानुभूतिरपि नैव विभिन्नरूपे, चैतन्ययोगिनि सुखादिधियस्तथा स्यात् ।।६७७।। छेदेऽपि किञ्च शिरसोऽन्यसमाश्रिता सा, किं नाऽस्ति येन मरणं शिरसो वियोगात् । प्राणोत्क्रमात् तव मते न च चेतनाया, युक्तः क्षयोऽपि खलु भूतसमाश्रितायाः ।।६७८।। प्राणत्वजातिरपरा न मते तवाऽस्ति, यन्त्रादितस्तनुगतात् पवनाद् विशेषः । प्राणस्य सिद्ध्यतु कुतो यदि वा विशेषो, जातिं विनाऽप्यभिमतोऽत्र तदाऽऽत्मसिद्धिः ।।६७९।। आयुःक्षयात् प्रबलकर्मपराहतेश्च, कश्चिन्मृतो भवति न त्वपरः समाने । रोगे चिकित्सनविधौ च चिकित्सके च, पथ्ये तथैव करणे परिचारकेऽपि ।।६८०।। आयुः क्षयो न न च कर्म विरुद्धमस्ति, भूतात् परं तव मते निरुजे शरीरे । किं कारणं वद न येन तु चेतनत्वं, दोषत्रयोपशमने मृतकेऽविकारे ।।६८१।। नैव ज्वरादिकृतमस्ति तदोष्णतादि, युज्येत येन ननु तत्र विकारिभावः । नैवाऽविकारिणि निजस्य गुणस्य दृष्टो, हासः परं स तु विवृद्धिमुपैति भूयः ।।६८२।। किञ्चिद् विलक्षणतयाऽभिमतं च भूतं, वैगुण्यतो भवति यस्य चितां विनाशः । भूतस्वभावघटनाव्यतिरिक्त एष, आत्मप्रयोगजनितो ननु तत्स्वभावः ।।६८३।। व्याप्ति विना न च प्रसङ्गप्रवृत्तिरस्ति, व्याप्तिग्रहोऽभिमत एव प्रसङ्गकर्तुः ।
तत्त्वेऽनुमानमपि किं न भवेत् प्रमाणं, किं वा न चाऽऽगममतिः प्रमितिर्विविक्ता ।।६८४।। साङ्ख्यमतप्रदर्शनम् -
नन्वेतदर्भकमतं भवतां विचित्र - युक्तिप्रथाविदलितं शतशोऽल्पमानम् । किं कापिलं मतमपि प्रथितं निरस्तं, कूटस्थनित्य इह येन भवेन्न चाऽऽत्मा ।।६८५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org