________________
॥श्रीन्यायसिन्धुः ॥
सन्तानतोऽप्यनुभवस्मरणात्मबोधौ, नो हेतुजन्यविधयाऽत्र प्रकल्पनीयौ । बाल्ये भवेत् प्रथमतो ननु चेतना ते, कस्मान्न मातृगतचेतनतात एषा ।।६६०।। तत्त्वेऽथवा भवतु मात्रनुभूतवस्तु - जातस्मृतिर्न कथमत्र शिशोस्तु बाल्ये । पूर्वापरानुगतकार्मणदेहतोऽन्य - स्मान्नो भवेच्चपलताद्युपसर्पणं च ।।६६१।। देहः स चाऽऽत्मनियतोऽध्यवसायभेदाद्, बन्धस्वरूपपरिणामतयाऽऽत्मनैव । संस्थापितः प्रकृतितोऽथ च देशतश्च, स्थित्याऽनुभावत इति प्रविभाग इष्टः ।।६६२।। वृत्तिर्न चेष्टजनकत्वमतिं विनैव, ज्ञानं द्विधा त्वनुभवस्मृतिभेदतोऽत्र । बालस्य चाऽनुभवहेतुवियोगतो नो, जन्मक्षणेऽनुभवबोधभवोऽभ्युपेयः ॥६६३।। किन्तु स्मृतिर्भवति साऽनुभवं विना नो, नैवाऽनुभूतिरिह जन्मनि तस्य यस्मात् । संस्कारतः परभवानुभवात्मलाभात्, सा स्तन्यपानसुखसाधनतावभासा ।।६६४।। एवं स्थिते तव तु कारणमन्तरा चेत्, स्वाभाविकी यदि प्रवृत्तिरसौ मता तत् । किं सर्वदा सकलगोचर एव यलो, नोदेति हेतुनिरपेक्षतया स्वभावात् ॥६६५।। शैत्यं जले भवति कारणमन्तरा नो, नैवोष्णताऽनलगता जनकं विनाऽत्र । शक्तिः स्वकार्यनियता जनकं विनाऽय - स्कान्तादिगा जिनसुतैर्न च सम्मताऽस्ति ।।६६६।। किञ्च स्वभाववचनं न निरर्थकं ते, वाच्यं तु किञ्चिदपि तस्य भवेदवश्यम् । भूतातिरिक्तमभिधेयमनिष्टमेव, भूतात्मकं भवति तन्न विशेषकृत् ते ।।६६७।। यस्माद् घटाद्यपि मतं तव भूतमध्ये, स्तन्यादिपानविषया कृतिरस्य किं नो । व्यावृत्तितो भवति यश्च विशेषभावो, नो तात्त्विकः स तु मिथोऽपि च सम्भवी यत् ।।६६८॥ धूमार्थिनां नियमतो ह्यनले प्रवृत्ति - स्तृप्त्यर्थिनां तु ननु भोजनपानकादौ । नो कार्यकारणमतिं विरहय्य किञ्च, स्यादन्यथा जगदिदं न कथं निरीहम् ।।६६९।। दण्डादिकं यदि भवेन्न च कुम्भहेतुः, किं तद्विनाऽपि वद कुम्भभवो न ते स्यात् ? | यो यस्य नो भवति हेतुरसौ विना तं, दृष्टो यथा पटकटादि विनैव दण्डम् ।।६७०।। यस्योद्भवो नियमतस्त्ववधेर्यतः स्यात्, पूर्वोऽवधिर्भवति कारणमेव सोऽयम् । तं स्वीकरोषि यदि किं न तदा स्वनीत्या, हेतुत्वमप्यनुमतं वचनान्तरेण ।।६७१।। त्रित्वादिकं च समुदायिषु खण्डशश्चे - नो सत् तदा न समुदायगतं भवेत् तत् । नो सर्वथा समुदितः समुदायिभिन्नः, स्याद्वादवाद्यभिमतो बुध ! तत्त्वदृष्ट्या ।।६७२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org