________________
॥ श्रीन्यायसिन्धुः ॥ आत्मत्वजातिरिह देहगता यदि स्यात्, किं चक्षुषा भवति नाऽऽत्ममतिस्तु तत्र । ज्ञानादिकं च परदेहगतं न कस्माद्, रूपादिवन्नयनतः स्फुटमेव भाति ।।६४७।। स्वात्मप्रकाश इह जैनमते प्रमाता, संयोगकल्पनभवा गुरुता न चाऽस्ति । न प्राप्यकार्यभिमतं नयनं मनश्च, सम्बन्ध इन्द्रियभवे निखिले न हेतुः ।।६४८।। नाऽपेक्ष्य गौतममतं च तथा लघुत्वं, तत्प्रक्रियात इह यन्नियमेन तस्य । संसर्गता त्रुटिमतेरनुरोधतस्तु, कल्प्यैव नाऽत्र विषयेऽन्यगतिस्तवाऽस्ति ।।६४९।। संयोगिनो हि समवायबलान्न चाऽणो - रूपस्य चाक्षुषमतिर्बुध ! येन तस्मात् । संयोगिनो भवति योग्यतया निवेशो, नो भिन्नजीवपरिकल्पनतो गुरुत्वम् ।।६५०॥ शालूकगोमयभवावपि वृश्चिकौ न, वैचित्र्यतोऽत्र भवतस्तु समानजाती । शालूकतोऽथ च न गोमय इष्यते वा, वैजात्ययोग्यपि च पौद्गलिकत्वभावात् ।।६५१।। अभ्यासशुक्ररसयोगजचेतनासु, वैजात्यमण्वपि न च प्रतिपद्यते जैः । तत्कारणेषु तु तथा तव सम्मतेषु, साजात्यमस्ति न च बोधजडत्वभेदात् ।।६५२।। अभ्यास एव नियतो ननु तेषु हेतु - ! शुक्रशोणितरसायनसेवनादिः । दृष्टो यतो यमलयोस्तु रसायनादेः, साम्येऽपि तेन जनितोऽत्र मतेः प्रकर्षः ।।६५३।। कस्मिंश्चिदेकविषयेऽभ्यसनेन शास्त्रे, शास्त्रान्तरे भवति यन्मतिपाटवादिः । तेनाऽपि सिद्ध्यति बटोरपरप्रयलाद्, बुद्धिविनाऽप्यनुपमाऽभ्यसनप्रकर्षात् ।।६५४।। एतद्भवे नहि यतोऽभ्यसनादिरस्य, जन्मान्तरस्य स तु सिद्ध्यति कार्यलिङ्गात् । कार्येकजातिनियमोऽसति बाधके नो, स्याद्धेतुजातिनियमव्यतिरेकतोऽत्र ।।६५५।। नो देहवृद्धिबलतो नियमेन प्रज्ञा - वृद्धिर्महाजगरनागवरादिकेषु । वृद्धिः क्वचित् तु सहकारिविशेषतोऽस्तू - पादानता नहि तनौ ननु चेतनायाः ॥६५६।। क्षेत्रादिहेतुवशतोऽपि विवृद्धिभाजो, वृक्षादयः किमु भवन्ति न चाऽल्पबीजैः । देहे विकारजननान्नियमेन बोधे, नो वा विकार उपलभ्यत एव किञ्च ।।६५७।। देहैकदेशदलनेऽपि च सात्त्विकानां, ज्ञाने विकारकणिकाऽपि न जायते यत् । स्वात्मैकतानमनसां च विकारलेशो, ज्ञाने न चाऽस्ति विकृतेऽपि शरीरदेशे ।।६५८।। नाऽन्यानुभूतविषयस्मृतिरन्यपुंसो, दृष्टो भवेत् स्मरणमेव न देहपक्षे । बाल्ये विलोकितपदार्थततेर्जराया - मेको न वृद्ध्यपचयाच्च यतः शरीरम् ।।६५९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org