________________
॥ श्रीन्यायसिन्धुः ॥
सामान्यमत्र नहि तुच्छमबाध्यबोध - ग्राह्यत्वतो नियतलिङ्गजबोधभास्यम् । येन प्रमाऽनुमितिरेव भवेत् स्वतो न, संवेदनं तदवगाहि कथं प्रमात्चे ।।६३४। प्रत्यक्षमेव तव सम्मतमत्र नाऽन्यत्, सम्भावनाऽप्युदयमेतु कथं मते ते । प्रत्यक्षहेतुविरहाद्धि परोक्षवढे - र्भानं भवेन्नहि परन्तु विपर्ययस्य ।।६३५।। कोटिद्वयावगतितो ननु संशयः स्यात्, कोटिद्वयावगतिहेतुरतस्तु वाच्यः । एकैककोटिविषयीकरणे समर्थो, बोधोऽक्षजन्य इति नोभयकोटिभानम् ।।६३६।। स्याच्चेदियं स्मृतिरतो नियतप्रदेशे, वृत्तिस्तदाऽनुमितितो न भवेच्च पुंसाम् । पूर्वानुभूतिविषये स्मृतितः प्रवृत्ति - दृष्टा न सन्निहितधर्मिणि लौकिकानाम् ।।६३७।। नाऽसत्पदार्थविषयावगमेऽस्ति हेतुः, ख्यातिस्ततो भवति सद्विषयैव सर्वा ।। अन्यत्र दृष्टविषयस्य यदन्यदेशे, ज्ञानं भवेद् भ्रममतिस्तु तदेव यस्मात् ।।६३८।। एवं स्थिते त्वनुमितित्वमतियथार्था, कुत्राऽपि चेत् तव मताऽनुमितिस्तदाऽस्ति । नो चेदनुव्यवसितावसतस्तु तस्य, भानं कथं भवितुमर्हति हेत्वभावात् ।।६३९।। अध्यक्षतोऽपि तव बोधगता न सिद्ध्येत्, किञ्चाऽसतोऽप्युपगते मतिगोचरत्वे । तस्यास्त्वनुव्यवसितेर्न कथं तथैवा - ऽसत्ख्यातितो भवति भानमिहाऽक्षवोधे ।।६४०।। नो निर्विकल्पकमतिः स्वत एव सिद्धा, स्वप्नेऽपि भाति ननु येन तयैव सिद्ध्येत् । प्रत्यक्षता स्वनियता किमु शून्यता नो, सिद्ध्येच्च कल्पनमतेर्धमता मते ते ।।६४१।। नो मानसत्वनियतानुमितित्वजाति - र्व्याप्तिग्रहोद्भवमतौ नियमेन भावात् ।। स्यादन्यथा घटपटाद्यपि मानसेऽस्मिन्, सामान्यहेतुवलतः किमु नैव भास्यम् ।।६४२।। तद्व्याप्यवत्त्वविषया मतिरन्यबोधे, त्वत्सम्मतेह प्रतिबन्धकभावतश्चेत् । वोधः सुखादिविषयोऽप्यनुमानहेतौ, सत्त्वे कथं भवतु मानस इष्यते यत् ।।६४३।। भोगोद्भवो नियमतः सुखदुःखभावे, तत्तद्वयं तव मतं यदि बोधमात्रे । जात्यैकयाऽनुगतया प्रतिबन्धकं त - दुत्तेजकं च कथितप्रतिवन्धकेऽथ ।।६४४।। किं लाघवादनुमितिव्यतिरिक्ततां त्वं, त्यक्त्वा न कल्पयसि मानसबोधमात्रे । पूर्वोक्तयुक्तिबलतः प्रतिबन्धकत्वं, तत्त्वेऽनुमा किमु न मानसवोधभिन्ना ।।६४५।। एतेन यैरनुमितिव्यतिरिक्त एव, भोगान्यमानसभवेऽनुगतां तु जातिम् । स्वीकृत्य तद्वति मतं प्रतिबन्धकत्वं, तेषां मतं भवति गौरवतो निरस्तम् ।।६४६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org