________________
॥ श्रीन्यायसिन्धुः ॥ शब्दप्रवृत्तिरिह चेद् यदि गौणवृत्त्या, नैतावता भवति वाधितगोचरत्वम् । नो तं विना भ्रममतित्वमुपेयमस्या, येन प्रमात्वमविगीततया न सिद्ध्येत् ।।६२१।। हेतोर्न पक्षघटनामितिरार्हतानां, किञ्चाऽनुमाफलतयोपगता मते तु । पक्षप्रयोग इह गौणतयोत मुख्या - दित्यादिपक्षरचनाऽनुचिता विकल्पैः ।।६२२।। अम्भोनिधौ भवति वृद्ध्यनुमोदयेन, चन्द्रस्य दृष्ट्यनुमितिस्तु पिपीलिकादेः । साण्डस्य सञ्चरणतोऽथ च कृत्तिकादेः, पूर्वोदयादनुमितिस्त्वपरोदयस्य ||६२३।। ब्राह्मण्यसाध्यविषयानुमितिश्च पुत्रे, ब्राह्मण्यतः सकललोकमतैव पित्रोः । नैतादृशेष्वपि परिश्रमतो वुधेन, लिङ्गेषु पक्षघटनाऽनुगतिर्विधेया ।।६२४।। यत्रैव यो भवति येन विनाऽत्र हेतुः, साध्येन धर्मिणि यतोऽनुपपन्नरूपः । तत्रैव तस्य गमकः स निजोपपत्त्यै, स्यात् पक्षसाध्यनियमोऽपि च तावतैव ।।६२५।। नाऽम्भोनिधेरुदरवर्त्यनलेन धूमो, दृष्टो गिरौ खलु विनाऽनुपपन्नरूपः ।। तस्मान्न तस्य गमको वद सोपयुक्ता, हेतोऽस्तु पक्षघटना व तव स्थिताऽपि ।।६२६।। हेतौ समस्ति तत एव न धीधनेन, वाच्यानुमाफलतया परमार्थतः सा । किं ज्ञाततादिरपि तत्र च विद्यमानो - ऽभीष्टस्तथा विबुध ! गौतमतन्त्रयुक्त्या ।।६२७।। सामान्यमात्रमिह साध्यतया मतं नो, नो वा विशेष उभयात्मकमेव किन्तु । प्रत्येकपक्षपरिदर्शितदोषजालः, स्याद्वादतन्त्रविमुखो लभतां क्व सिद्धिम् ।।६२८।। सम्भावना नहि प्रमाभिमता प्रमात्वं, संवादतो भ्रमधियाऽवगतं तु तस्याम् । कार्यार्थिनोऽभिमतहेतुप्रवृत्तये स्यात्, संवादितार्थविषयत्वमयी न चाऽस्ति ।।६२९।। सम्भावना हि सविकल्पकबुद्धिरूपा, सा नाऽर्थगोचरतया तव सम्मताऽस्ति । संवादितामतिरपि भ्रम एव तस्यां, चेत् तर्हि किं तव भवेदनवस्थितिर्न ।।६३०।। स्यान्निर्विकल्पकसमुत्थविकल्पभास्य - ग्राहित्वमत्र सविकल्पनमात्रवृत्ति । संवादिता परमसौ न च निर्विकल्पे, तिष्ठत्यतः कथमिह प्रमितित्ववुद्धिः ।।६३१।। सा निर्विकल्पकभवावगतार्थधीत्वं, स्यानिर्विकल्पसविकल्पनमात्रवृत्ति । इष्टा तदानुमितिरेव प्रमात्वसाध्या, तस्माच्छलादभिमता भवतां मतेऽपि ।।६३२।। संवेदनं स्वत इहाऽनुमितेः प्रमात्वे, चाऽस्मन्मते भवितुमर्हति तत्त्वयोगात् । सम्भावना यदि प्रमा तव सम्मता स्यात्, संवेदनं स्वत इहाऽपि भवेन्न चैवम् ॥६३३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org