________________
॥ श्रीन्यायसिन्धुः ॥
नाऽयोग्यमिष्टमिह शृङ्गमतो यदि स्यात्, तद् वै शशे किमु न तन्मतिरक्षजा तत् । प्रत्यक्षबोधविरहाच्च ततो न तस्य, सद्भावसिद्धिरियमेव गतिर्न जीवे ।।६०८।।। आत्मा परो न च परस्य हि चर्मदृष्टे - योग्यस्ततो विशदबुद्धिचरो न चाऽन्यैः । सर्वज्ञबोधविषयास्तु समस्तभावा - स्तत्राऽऽत्मनोऽपि निखिलस्य कथं न भानम् ॥६०९।। चेष्टादिलिङ्गजनिता मितिरस्मदादे - मानं परात्मविषयाऽपि च चर्मदृष्टेः । स्वात्मा स्वसंविदितबोधत एव साक्षात्, सिद्धो न चाऽन्यदिह मानमपेक्षते नः ।।६१०।। तत्राऽहमित्यधिगतिर्न शरीरतोऽस्ति, यस्मात् तमस्यपि महानिबिडे रजन्याम् । देहप्रबोधविरहे नयनादितोऽस्या, भावो जनैः स्वविदितो निरपहृतोऽस्ति ।।६११।। नेत्राद्यजन्यविषयत्ववतस्त्वहं त्वं, स्वाभाविकं भवति नो नयनादियोग्ये । किन्त्वौपचारिकमतो व्यतिरिक्त आत्मा - ऽहन्त्वप्रतीतिविषयो न शरीरमेव ।।६१२।। अत्यन्तसन्निधजने निजकार्यनिष्ठे, द्रष्टाऽहमित्यधिगतिर्ननु लौकिकानाम् । देहे स्वभोगजनकत्वबलात् तथैवा - ऽहन्त्वप्रतीतिरुपपद्यत एव पुंसाम् ।।६१३।। तस्मान सुख्यहमिति प्रमितिम॒षार्था, गौरोऽहमित्यधिगतेरुपचारतैव । आत्मा ममाऽयमिति केवलमुक्तिलासो, देहे त्वयं भवति वस्तुत एव बोधः ।।६१४।। व्याप्त्यग्रहादनुमितिर्न परात्मनश्चेद्, धूमाद्भुताशनमतिस्तव किंनिमित्ता ? | नैवाऽनुमानमिह सम्मतमित्यवाच्यं, पूर्वोक्तदोषगणभीतिमता त्वया तु ।।६१५।। देशान्तरं तव मते न गृहीतमक्षैः, कालान्तरं न तव भूतिविविक्तिमस्ति । तस्मात् कथं कथय ते व्यभिचारशङ्का, स्यादन्तरानुमितिमज्ञ ! परोक्षभावे ।।६१६।। नो पञ्चलक्षणमिहाऽनुमतं तु लिङ्ग, नो वा त्रिलक्षणमथाऽनुपपन्नता या । साध्यं विना भवति हेतुगता तु सैका, सद्धेतुलक्षणमतो न च दोषपोषः ।।६१७।। सा कार्यकारणबलादुत वा स्वभावात्, किं वाऽन्यतः क्वचिदपि प्रथिता यदि स्यात् । लोकप्रवृत्तिविरहादिप्रसङ्गतर्का - जय्या तदा नहि बिभेति च शड्या ते ।।६१८॥ प्रत्यक्षतोऽनुमितितोऽथ च शाब्दतो वा, व्याप्तिग्रहो न च मतो बुध ! जैनतन्त्रे । तत्खण्डनं निखिलमेव सहायकं नो, ाशेन तेऽपि हृदि पल्लविता जिनोक्तिः ॥६१९।। तर्कात्मकः सकलसाध्यसमग्रहेत्वा - क्षेपेण मानमिह जैनमतानुगानाम् । व्याप्तेर्मतावलमयं श्रुतिगोचरः किं, जातः कदाचिदपि ते न गुरोः सकाशे ।।६२०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org