________________
४८
प्रामाण्यलक्षणमवाधितगोचरत्वं, संवादितेति तव सम्मतमेतदेव । प्रामाण्यसाधकतयाऽक्षभवे तु बोधे, तत्राऽनुमाभ्युपगमोऽरुचितोऽपि किं नो ।।५९५ ।।
शब्दार्थयोश्च समयग्रहसव्यपेक्षो - बुद्धस्वभाव इह वाचकतादिरूपः ।
संसर्ग आर्हतमते प्रमितोऽस्ति किं नो, आप्तागमोऽपि तव येन न च प्रमाणम् ॥ ५९६ ॥ सर्वज्ञसिद्धिरिह दर्शितनीतितस्ते, मान्यैव तद्वचनतः प्रतिपादिता ये । स्वर्गादयो नहि भवन्ति च तेऽप्यसत्याः, प्रत्यक्षगोचरचराः परमस्य पुंसः । । ५९७ ।। यद्यागमो न च भवेत् तव मानमिष्टं त्वद्वाक्यतो नहि परस्य भवेत् प्रमार्थे । नो वा परोक्तवचनात् तव बोधलेशो, लोके कथाऽपि च परेण निरर्थिका ते ॥ ५९८ || शास्त्रं निरर्थकतयैव गुरुप्रणीतं, वाच्यं न कैश्चिदपि तत्त्वमतावहेतु ।
प्रेक्षावताऽपि गुरुणा स्वयमेव प्रेक्षा कारित्वमात्मनियतं विफलीकृतं किम् ? ।।५९९ ।। किञ्च प्रसिद्धिपदवीं न गुरुस्तवाऽपि शब्दानुमानप्रमिती विरहय्य याति । शाब्दप्रमाणमुररीकुरु लोकदृष्ट्या ऽप्यास्था गुरोरपि मते तव तद् विना नो ||६०० || देहस्वरूपपरिणामबलेन भूतान्येवाऽस्ति चेतनमिति प्रतिपादितं यत् ।
तत्राऽपि किं स च ततो व्यतिरिक्त इष्टो - ऽभिन्नोऽथवा न प्रथमस्तव सम्मतोऽस्ति || ६०१ ||
॥ श्रीन्यायसिन्धुः ॥
-
तत्त्वे बृहस्पतिविलोकिततत्त्वसङ्ख्या - लोपोऽधिकस्य वचसा च तवैव प्राप्तेः । पक्षो द्वितीय इह ते यदि सम्मतस्तत्, किं नो घटादिषु भवेदविशेषतस्तत् ||६०२||
Jain Education International
नो मोदकाद्यपि हविर्गुडकाद्यभिन्न मेकान्ततो जिनमते प्रथितं परन्तु । भिन्नस्वभावगमनाद् व्यतिरिक्ततावत्, स्याद्वादतो भवति भिन्नमभिन्नमेभिः ।।६०३।। प्रत्येकवृत्तिरिह चाऽपि न चेद् रसादि - र्नैयत्यतो भवति तर्हि कथं प्रकृष्टः । यद्वद्धविर्गुडकणिक्कसमुद्भवः स तद्वत् कथं न तिलरेणुजलादिभिः सः ||६०४|| मद्ये न मादनफला समुदाय्यभिन्ने, भिन्नेऽपि किन्तु समवैति मतेऽत्र शक्तिः । चार्वाक ! तत् तदुभयं तव सम्मतं न दृष्टान्तभावममलं प्रतिपद्यतेऽत्र || ६०५ || नो शक्तितो भवति चेतनता मते ते, प्रत्येकभूतपरमाणुगता यतः सा । दृश्या न चाऽस्ति न च तद्व्यतिरिक्ततायां, प्रत्यक्षमानमपरं तव सम्मतं न ||६०६ ।। शक्तिश्च चेतनतया यदि सा विभिन्ना, सम्बन्ध एव भविता न तयोस्तदानीम् । तादात्म्यमेव यदि तेऽनुमतं तयोस्तत्, प्रत्येकशो भवतु चेतनताप्रकाशः ||६०७||
For Private & Personal Use Only
www.jainelibrary.org