________________
॥ श्रीन्यायसिन्धुः ॥
आत्मप्रसिद्धिजनकं न यथाऽत्र मानं, तद्बाधकं च न तथैव विभाति मानम् । यस्माद् विचारकतयाऽक्षजवोध इष्टो, नाऽऽप्तैस्तु यद्यपि तथाऽपि भवेत् प्रसङ्गः ||५८२|| यद्यङ्कितस्य शशशृङ्गनिषेधनेऽपि तस्यैव यद् भवति वृत्तिरबाधितस्य ।
आत्माऽस्ति नेति न निषेधविधानमेवं, यद्यस्ति तत्र तव किन्तु किमस्ति मानम् ||५८३ || सर्वत्र तेन वुध ! पर्यनुयोगमात्रं कृत्वा बृहस्पतिरमन्दमतिप्रभावात् । ध्यान्ध्यं विमूढजनचित्तसमाश्रितं तु स्वर्गादिखण्डनगिराऽनयदन्तधाम || ५८४|| चार्वाकमतखण्डनम्
चार्वाकबाललपितं गुरुगौरवेण, मान्यं भवेदनुपसेवितसद्गुरूणाम् । एतद्वचो न च जिनागमतत्त्वनिष्ठा काष्ठाविशुद्धमनसां पुनरार्हतानाम् ||५८५|| चार्वाकमन्दमतयो हि परात्मसंस्था, अज्ञानसंशयविरुद्धमतीरनक्षाः । ज्ञात्वेन्द्रियैर्न प्रभविष्णव आदधाना, बुद्धिं यथार्थविषयामपनेतुमेते || ५८६ ।। स्वर्गादिकं च जिनगौतमतन्त्रविज्ञे - रिष्टं त्वलौकिकमिति प्रमितं त्वया यत् । तन्नाऽक्षजप्रमितितो नयनाद्ययोग्यं, चेष्टादिलिङ्गजनितानुमितेः परन्तु || ५८७।। अध्यक्षगोचरतया नियमोऽस्ति नो वा, सत्त्वस्य तेऽभिमत आद्य इहाऽप्रशस्यः । यस्मात् तथा सति तवाऽपि मते प्रमाणं प्राप्तं भवेदनुमितेर्जनकं विविक्तम् ||५८८|| आत्माऽन्तिमे वद वाऽपि कथं न सत्यो ऽप्रत्यक्षगोचरचरोऽपि मृषाप्रलापिन् ! | व्याप्ता व्यवस्थितिरियं किमु मानतो वा, मेयस्य किं नु तव नैव मतेऽस्ति विद्वन् ! ।।५८९ ।। आद्येऽनुमानमपि किं न करोषि चित्ते, भङ्गयन्तरेण वचसा प्रतिपादितं यत् । अन्त्ये कथं न शशशृङ्गमपि प्रमेयं, सिद्धयेद् बृहस्पतिमतं तु ततो विचित्रम् ।।५९०|| स्वाध्यक्षबोधविगमात् किमु नाऽस्ति जीवो, देहाद् विविक्त उत वा निखिलैरदृष्टेः । आद्ये स्वकीयनयनाद्यपि नैव सिद्धये - दन्धस्य ते किमु घटाद्यपि सिद्धिमेतु ।।५९१ ।। प्रत्यक्षतो नहि कदाचिदपि क्वचिद् वा, कैश्चित् तनोरवगतो व्यतिरिक्त आत्मा । एवं तवाऽभिलषितोऽन्तिमकल्प एषा, बुद्धिर्मताऽक्षजनितोत परैव काचित् ? ।।५९२ ।। कल्पो न चाऽऽद्य इह तेऽभिमतो यतो नो, नेत्रादिकस्य विषया व्यवधानभाजः । अन्त्ये परोक्षमतिरेव भवेत् ततस्ते, मान्याऽनुमाऽपि च मते किमु नैव विद्वन् ! ।।५९३ ।। या लौकिकैरुपगताऽनुमितिर्यथार्था, लोकप्रवृत्तिचतुरा तव सम्मता सा । शास्त्रेऽपि लौकिकपरीक्षकयोर्विशेषो, नो कश्चिदत्र विबुधैरवलोकितो यत् ||५९४||
Jain Education International
-
४७
For Private & Personal Use Only
www.jainelibrary.org