________________
॥ श्रीन्यायसिन्धुः ॥ तन्मानसत्वनियतं न परोक्षवृत्ति, किं वाऽस्त्वतो भवति लाघवमत्र पक्षे । सामान्यतो भवति मानसबोधमात्रे, बाह्याक्षवोधजनकं प्रतिबन्धकं यत् ।।५६९।। तस्मिन् परोक्षमतियोगिनि कल्पिते तु, किं गौरवं न प्रतिबन्धकतान्यतातः । प्रत्यक्षता निखिलविज्ञजनप्रसिद्धा, हेया न तर्करसिकैरनुमाऽऽत्मवोधे ।।५७०।। साडूर्य्यदोषघटना तु कुतार्किकाणां, जातित्ववाधकतयाऽभिमता न विज्ञैः । आत्मत्वजातिरपि येन न भूतसङ्के, देहात्मके गुरुमतेन भवेत् प्रसिद्धा ।।५७१।। संयोग इन्द्रियभवे न पृथक् प्रकल्प्यो, व्यापार आत्मविषये मनसोऽपि वोधे । संयोगिनो हि समवायत एव देहे, नेत्रादिना मतिरुदेष्यति तार्किकाणाम् ।।५७२।। शालूकतो भवति गोमयतोऽपि जन्म, शालूकजातिनियमेऽपि च वृश्चिकानाम् । ज्ञानेकजातिनियमेऽपि विभिन्नजाते - हेतोर्भवेत् किमु न बुद्धिजनिस्तथैव ।।५७३।। पित्रोः कदाचिदिह शुक्ररजःसमुत्थो, वोधो रसायनप्रयोगभवः कदाचित् । अभ्यासतो भवति सोऽथ च तेन नाऽऽत्मा, देहात् पृथक् तव प्रसिद्धिमुपैति युक्त्या ।।५७४।। प्रज्ञादिकं प्रतिदिनं च शरीरवृद्ध्या, प्राप्तप्रकर्पमिह सर्वजनप्रसिद्धम् । दृष्ट्वाऽपि देहगुणतां यदि तस्य नैव, मन्ता तदा भवतु तस्य तु को विपक्षः ।।५७५।। वालस्य जन्मसमयेऽपि च दुग्धपाने, वृत्तिः स्वभाववलतो न च वासनातः । शङ्का न तत्र विदुषां खलु युज्यतेऽर्थे, स्वाभाविकी हि वहुधा जगतो व्यवस्था ।।५७६।। शीतं जलं कथय केन कृतं तथाऽग्नि - रुष्णस्वभाव इह केन विनिर्मितोऽभूत् । आकर्षणानुगतशक्तिरयोमणीनां, कस्मादभून्न च तथा प्रकृते वितर्कः ।।५७७।। नो कार्यकारणसमाश्रयणेन कोऽपि, कार्यो विचार इह तर्कवितर्कदक्षैः ।। नो वस्तुतो गुरुमतेऽनुमतः कयोश्चिद्, यत्कार्यकारणतया नियमेन बन्धः ।।५७८।। प्रत्येकशी घटपटादिषु वर्तते नो, त्रित्वादिकं पुनरिदं समुदायवृत्ति । तद्वन्न भूमिजलवह्निमरुत्स्वपि स्यात्, प्रत्येकशश्च किमवृत्त्यपि चेतनत्वम् ।।५७९।। कुम्भादिभावमिह योग्यमवाप्य दृश्यो - ऽदृश्योऽपि चाऽणुनिकरः समुदाय्यभिन्नः । देहस्वभावमवलम्व्य तथैव किं न, भूतानि चेतनतया परिणामवन्ति ।।५८०।। मुक्तात्मनां विबुधगौतमतन्त्रसिद्धौ, ज्ञानादिकस्य विरहोऽपि यथा तथैव । प्राणादियोगविगमे ननु चेतनाया, देहे लयोऽपि मृतके गुरुतन्त्रसिद्धः ।।५८१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org