________________
॥ श्रीन्यायसिन्धुः ॥
शृङ्गं शशीयमपि किं न मतं त्वयाऽङ्गा, नो दृश्यते क्वचिदपीति न तन्मतं चेत् । आत्मोपलब्ध इह किं भवता कदाचि - नेत्रादिना ननु यतो न भवेत् स मिथ्या ।।५५६॥ नाऽहं प्रतीतिविषयो भवतामिहाऽऽत्मा, गौरोऽहमित्यनुभवो हि शरीरधर्मः । एकत्र धर्मिणि सहावगतौ प्रवीणो - ऽहं त्वस्य सुख्यहमिति प्रथनं तु मिथ्या ।।५५७।। लिङ्गं न चाऽत्र निरुपद्रवमीक्ष्यते यत्, तेनाऽनुमानमपि तस्य भवेन सिद्धौ । नोऽव्याप्तिबुद्धिमनपेक्ष्य तवाऽनुमायाः, किञ्चोद्भवोऽप्यभिमतो बुध ! लिङ्गजायाः ।।५५८।। व्याप्तिग्रहो भवति न व्यभिचारशङ्का - भङ्गानुकूलमनपेक्ष्य च तत्र तर्कम् । व्याप्तिग्रहं च विरहय्य न तर्कजन्म, तत्राऽपि किं भवति न व्यभिचारशङ्का ।।५५९।। तस्याः क्षयोऽपि यदि तर्कसमाश्रयेण, स्याच्चक्रको भ्रमणतोऽभ्रमणेऽनवस्था । व्याप्तिग्रहोऽक्षजनितः किमु लिङ्गजो वा, तत्राऽक्षजो यदि मतो न च युज्यते सः ।।५६०।। यस्मात् पुरःस्थितपदार्थमतौ प्रवीणं, नेत्रादिकं व्यवहितार्थमतावलं नो । व्याप्तिग्रहो निखिलसाधनसाध्यधर्मि - ग्राही कथं भवतु तेन न लिङ्गजोऽपि ।।५६१।। नैवाऽगृहीतनियमोऽनुमितौ समर्थो, हेतुस्ततो नियमबुद्धिरिहाऽपि लिङ्गात् । तत्राऽपि तद्ग्रहणमन्यत एव लिङ्गा - देषाऽपरा नियमबुद्धिकृताऽनवस्था ।।५६२।। गौणं प्रमाणमिह नैव मतं बुधानां, प्रत्यक्षमात्रमत एव भवेत् प्रमाणम् । गौणात् त्वयाऽनुमितिकारणवृत्तिरुक्ता, गौणत्वतो न तव मानमतोऽनुमानम् ।।५६३।। पक्षो यतो भवति साध्यविशिष्टधर्मी, व्याप्तिग्रहे स तव साध्यपरो मतोऽथ । व्याप्यस्य पक्षघटनाग्रहणे स धर्मी, गौणाद् विना कथय काऽत्र तवाऽस्ति नीतिः ।।५६४।। सामान्यमत्र यदि साध्यतया मतं ते, तत्साधनं भवति तर्हि वृथैव सिद्धेः । किञ्च प्रवृत्तिरपि नैव फलार्थिनां स्या - ज्ज्ञानं विनाऽन्यदिह तस्य यतो न कार्यम् ।।५६५।। व्याप्त्यग्रहाद् भवति नैव विशेषरूपः, साध्योऽन्वयादिघटना न विशेषतो यत् । प्रत्येकपक्षपरिदर्शितदोषतस्तु, नैवोभयं भवति साध्यतयाऽप्यदुष्टम् ।।५६६।। लोके तु धूममतितो गिरिगह्वरे या, धूमध्वजावगतिरस्ति न साऽनुमाख्या । सम्भावना भवति किन्त्वथवा स्मृतिः सा - ऽसंसर्गभानविकला व्यवहारयोग्या ।।५६७।। यच्चाऽस्त्यनुव्यवसितावनुमात्वभान - मस्यास्ततो भवति नाऽनुमितित्वसिद्धिः । यस्मादसन्मतिबलादुपनीतमेवा - ऽसत्ख्यातिबोधविषयोऽनुमितित्वमस्याः ।।५६८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org