________________
४४
नेत्रादिकं नियतगोचरमत्र दृष्टं, क्षेत्रज्ञतोऽनियतगोचरतः स्वकीये ।
ग्राह्ये प्रवृत्तिमदधिष्ठितमेव तद्वत्, क्षेत्रज्ञराशिरपि किं न ततो महेश: ? ।। ५४३ ।।
एतन्न युक्तमनवस्थितिदोषतस्ते ऽधिष्ठायकानुशरणस्य यतो न काष्ठा । विश्रान्तिरस्ति यदि तर्हि न शम्भुसिद्धि- र्व्याप्तेर्लयाद् भवितुमर्हति गौतमानाम् ।।५४४।। पक्षाप्रसिद्धिरिह दोषतया न चेष्टो, जैनैर्यतो भवतु तस्य शरीरिताद्ये । साध्येऽप्रसिद्धिघटना खलु धर्म्यसिद्ध्या, वैकल्पिकी त्वभिमता बुध ! धर्मिसिद्धिः ।।५४५।। किञ्च स्वतन्त्रगमके खलु धर्म्यसिद्धि र्दोषो भवेन्न च प्रसङ्गतयाऽप्यभीष्टे । एवं स्थिते भवतु किं न च कर्तृतादे रीशे शरीरघटनादिप्रसञ्जनं नः || ५४६ || ईशोऽथवा किमु न जैनमतेऽस्ति सिद्धो, धर्म्यप्रसिद्धिवचनं वचनीयमेव । कर्ता परं न च भवेत् तत एव तस्य कर्तृत्वखण्डनपरं शिवखण्डनं नः || ५४७ ।। तीर्थप्रवर्तनपटुर्भवतां मतेऽपि कस्माद् भवेत् स इति नैव परेण चोद्यम् । कामादिदोषरहितोऽपि हि तीर्थकृत्त्व - स्वाभाव्यतो भवति तीर्थकरो जिनेन्द्रः ||५४८ || यत् तेन तीर्थकरनाम शुभैरनेकैः, कर्मार्जितं तदुदयाद् भविकोपकृत्यै । तीर्थं प्रवर्तयति कर्मवशेन सिद्धो, निःशेषकर्मवियुतोऽतनुरार्हतानाम् ||५४९।। नैतद्गुणात्मकमिहाऽभिमतं जिनानां ज्ञानादिवद् भवति पौद्गलिकं परन्तु । स्वाभाविकोर्ध्वगतिमानपि यस्य योगा - दात्मा भवे भ्रमति मत्त इवेह मद्यात् ॥ ५५०||
,
चार्वाकमतप्रदर्शनम्
-
Jain Education International
॥ श्रीन्यायसिन्धुः ॥
-
नन्वत्र गौतमसुतानुमतो न माता, ज्ञानं नवा न च तयोः समवायबन्धः । इत्थं त्वयैव विनिभालितमेतयैव, नीत्या न किं गुरुमतं मतमद्वितीयम् ||५५१ ।। न स्वर्गलोकमनुगच्छति कोऽपि जीवो, देहाद् विभिन्न इह सोऽपि न मानसिद्धः । पूर्वः परो न च भवो नरकादिकं नो, प्रत्यक्षभिन्नमथ मानममानमेव ।।५५२ ।। किं पूजया किमु तथेन्द्रियनिग्रहेण, दारादिभोगविमुखैश्च मुधा तपोभिः । कश्चाऽऽगतोऽत्र परलोकत इत्यविज्ञा, धूर्त्तप्रलापवचनैः किमु वञ्चिता नो ।। ५५३ ।। चत्वारि सर्वजनताक्षजगोचराणि भूतानि सन्ति नहि तद्व्यतिरिक्तमस्ति । तान्येव देहपरिणामविशेषलाभे, किं चेतनानि न भवन्ति यतोऽन्य आत्मा ||५५४।। दृष्टो हविर्गुडकणिक्कसमष्टिरूपे, किं मोदके न हि विचित्ररसप्रकर्षः । किं वा तथा न मदशक्तिरनन्यरूपे, संयोगतः समुदयात्मनि दृष्टपूर्वा ॥ ५५५ ।।
For Private & Personal Use Only
www.jainelibrary.org