________________
॥ श्रीन्यायसिन्धुः ॥
तत्राऽनवस्थितिलता न हृदि स्थिता ते, जैनैरपीह ननु सोपगतैव यस्मात् । किन्त्वीदृशस्य समपेक्षण ईश्वरस्या - ऽपेक्षानवस्थितिघटा त्वपरैव काचित् ।।५३०।। तत्कारणानि यदि नेश्वरसम्भवानि, तैरेव किं भवति नो व्यभिचारि लिङ्गम् । प्रेक्षावतां भवति किञ्च प्रयोजनेन, व्याप्ता प्रवृत्तिरिह नेतरथा क्रियायाम् ।।५३१।। सम्प्राप्तकामनिकरस्य महेश्वरस्य, नो ते प्रपञ्चकरणात् किमपीष्टमिष्टम् । क्षित्यकुरादिकमयं विदधातु कस्मात्, प्रेक्षाऽथवा किमु भवेन्न त्वयाऽस्य लुप्ता ॥५३२।। कारुण्यतो भगवतो यदि ते प्रवृत्तिः, सृष्टिर्भवेच्छुभमयी न च तद्विरुद्धा । क्रीडा तु रागनियता न भवेन्महेशे, न क्रीडयाऽपि तत एव जगत्प्रवृत्तिः ।।५३३।। दुःखापनोदनकृते च भवेद् विलासः, किं वा सुखाय तदुभावपि नो महेशे ॥ स्वातन्त्र्यमात्मनियतं सकलेषु पश्यन्, दुःखान्वयं जगदिदं प्रकरोतु कस्मात् ।।५३४।। धर्माद्यपूर्वसहकारिवशान्महेशो, वैचित्र्यशालि जगदेव करोति नाऽन्यत् । एवं मतं यदि तदा परतन्त्रतैव, स्वातन्त्र्यमस्य नहि तेऽभिमतं तु युक्तम् ।।५३५।। धर्मं विलोक्य ननु तेन सुखं करोतु, पापं विलोक्य विरतोऽस्तु च दुःखसृष्टेः । एवं कृते भवति नो परतन्त्रताऽनु - कम्पाऽपि सर्वजनिमत्सु प्रकाशिता स्यात् ।।५३६।। पापं विधाय पुनरस्य विनाशकर्तु - भॊगेन मूढजनतोऽप्यपकृष्टताऽस्य । नूनं भवेन्न नियमोऽस्ति तथा विनाशो, भोगेन कर्मपटलस्य न चाऽन्यथेति ।।५३७।। ज्ञानाग्निनाऽप्यशुभकर्मततेर्विनाशः, शास्त्रे तवाऽपि ननु सम्प्रतिपन्न एव । ज्ञानं स्वसन्ततिगतं न कथं विधाय, सर्वोपकारनिपुणोऽप्यभवन्महेशः ।।५३८।। दण्ड्याय दण्डमिह यन्नृपतिर्ददाति, रागादिदोपकलितो व्यपदिश्यते तत् । दण्ड्यापकारविषये च न कर्तृताऽस्य, शम्भुस्तवाऽभिलषितस्तु ततो विरुद्धः ।।५३९।। राजा स्वतन्त्र इह नैव तथा क्रियायां, मन्त्र्याधनेककरणोपकृतः प्रभुः सः । राज्यक्षयादिभयतो नयमार्गगामी, नैवं शिवस्तव मतोऽखिलकार्यकर्ता ।।५४०।। राजा प्रसन्नहृदयो द्रविणं ददाति, क्रुद्धो हरत्यखिलमेव धनं च किं वा । कोपप्रसादविगतो भवतां महेशः, कस्येष्टकृद् भवतु कस्य च दुःखकारी ? ।।५४१।। धर्मादयो नियमिता नियमेन कार्य, कुर्वन्ति नोऽनियमिता इति शम्भुसिद्धिः । शम्भुः स्वयं यदि न कार्यजनौ प्रभुः स्यात्, सिद्धिस्तदा भवतु तस्य कथं पटिष्ठा ? ।।५४२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |