________________
॥ श्रीन्यायसिन्धुः॥ स्यालाघवाद् यदि न सर्वगतः स बोध - स्तेनैव सर्वविषयोऽपि न युज्यतेऽथ । एकत्र तद्विनिगमो न परत्र चेत् तत्, तुल्यं निभालय मृदादिषु कार्यतायाम् ।।५१७।। कर्तृत्वमस्य यदि बोधप्रयलकाम - संसर्ग एव ननु तर्हि समस्तभावे । कर्तृत्वमापतितमस्य ततो न नित्यं, किञ्चित् तवाऽप्यभिमतं स्थिरतामुपैतु ।।५१८।। यद्धेतुगोचरमतिर्ननु तस्य कर्ता, नाऽन्यस्य तद्विगमतो यदि सम्मतस्ते । ज्ञानादि तर्हि नहि केवलमर्थकारि, कार्यव्यवस्थितिरिहाऽन्यवलाद् यतोऽभूत् ।।५१९।। कर्ता न सर्वजनकावगतौ समर्थः, कुम्भादिकार्यजननेऽप्यवलोकितोऽस्ति । यस्माददृष्टमपि कारणमस्त्यदृष्ट - कालादिकं घटपटादिविधानदक्षैः ।।५२०।। एवं समस्तजनकावगतेरभावे - ऽपीशोऽङ्कुरादि विदधातु ततो न तस्य । स्यात् कल्पनं सकलकारणप्रेरकत्वा - दज्ञातहेतुरपि किं न करोतु कार्यम् ? ।।५२१।। सामान्यतो न वपुषाऽनुविधानमस्ति, कार्यस्य तेन नहि कारणमिष्यते तत् । कर्ताऽपि नैव सममस्ति विलोक्यमानं, प्रेक्षावता तदिति सोऽपि न कारणं ते ।।५२२।। न प्रक्रियानुसरणेन भवेद् व्यवस्था, कर्ता प्रसिद्ध्यतु यतो निखिलेऽपि कार्ये । किचाऽन्वयो न नियतो व्यतिरेक एव, किन्त्वत्र कारणतयाऽभ्युपगम्यमाने ।।५२३ ।। ईशस्त्वया सकलकालगतो मतोऽस्ति, काले ततो न विरहोऽस्य तथा न देशे । व्याप्त्याऽन्वयादिति कथं व्यतिरेकशून्ये, हेतुत्वमप्युपगतं तव सिद्धिमेतु ।।५२४।। ज्ञानादयो निखिलकार्यजनौ समर्था, व्यापारतामनुभवन्ति सदैव तस्य । कार्यं ततो निखिलमेव सदैव किं न, सामग्र्यभाजि जनके न जनेर्विलम्वः ।।५२५।। सोऽपेक्षते यदि परं सहकारिणं त - नित्यं भवेदुत ततो व्यतिरिक्तमेव । आद्ये भवेज्जनिमतां न जनेर्विलम्बः, कर्ता सदाऽस्ति सहकारिकरम्बितो यत् ।।५२६।। अन्त्ये स ईश्वरकृतोऽभ्युपगम्यते चेत्, तस्याऽपि किं नहि भवेच्च सदैव जन्म । तत्राऽपि सोऽन्यसहकारिसमाश्रयेण, हेतुर्भवेद् यदि तदा सुदृढाऽनवस्था ।।५२७।। इष्टानवस्थितिरियं हि प्रमाणमूला, विश्वव्यवस्थितिरियं न यतोऽन्तरा ताम् । इत्यादितार्किकवचो न विचाररम्यं, भावावबोधविरहेण प्रवर्तमानम् ।।५२८।। अन्यानि यानि जनकानि त्वयोदितानि, वस्तूनि तान्यपि महेशकृतानि चेत् स्युः । सर्वाणि तानि न भवन्ति सदैव कस्मा - देवं स्थितौ च जनकानि कुतः क्रमेण ।।५२९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org