________________
॥ श्रीन्यायसिन्धुः ॥
नाऽचेतनं भवति चेतनसव्यपेक्ष - मेव स्वकार्यजनने पटुरित्यमन्दैः । व्याप्तिर्मता तव तु येन प्रवृत्तिभाज - स्तत्प्रेरिता अणुमुखाः स्वत एव नैवम् ।।५०४।। नाऽकारणाद् भवति कार्यमतोऽनुमा स्यात्, कार्येण हेतुविषया न ततो महेशः । कर्ता प्रसिद्ध्यति यतो नहि जन्यमात्रे, क; विनाऽभवनमव्यभिचारि दृष्टम् ।।५०५।। यदृष्टिमात्रत इह स्मृतिरस्ति कर्तु - स्तादृम्पदार्थजनको भवतोऽस्तु कर्ता । क्षित्यङ्कुराद्यनुभवेऽपि न जायते यत्, कर्तुः स्मृतिर्न च सकर्तृकमिष्यते तत् ।।५०६।। एकत्र दर्शनबलाद् यदि कार्यमात्रे, कर्ता मतो जनक ईश इहेन्द्रमूर्ध्नः । किं कारणं नहि नरो भवतां मते स्यात्, कुम्भादिवद् भवति सोऽपि मृदो विकारः ।।५०७।। कर्ता शरीररहितो न च सम्प्रसिद्धो - ऽदृष्टोऽपि चेत् तव मतो नियमानुरोधात् । क्षित्यकुराद्यपि घटादिविलक्षणं न, कार्यं तदा किमिह दृष्टमकर्तृकं स्यात् ? ।।५०८।। कार्यत्वतो भवतु कारणजन्यताऽस्य, तत्राऽपि लाघवबलादणुजन्यतैव । भासेत लैङ्गिकमती भवजन्यता तु, नो गौरवप्रतिहता तव नीतिरीतेः ।।५०९।। एकान्ततस्तव मता न च कार्यताऽत्र, पक्षेऽस्त्यतो भवति नो किमु हेत्वसिद्धिः । सामान्यतो भवति साऽव्यभिचारिणी नो, आत्माद्यपक्षगमनादिति चिन्तनीयम् ।।५१०।। एतेन नाऽवयविताऽपि मता तव स्यात्, कार्यत्वसिद्ध्यनुगुणा शशशृङ्गकल्पा । सामान्यतो भवतु सा न तयाऽर्थसिद्धिः, काचित् तवाऽभिलषितेति विचारयाऽन्तः ।।५११।। ज्ञानत्वतो निखिलमेव भवेच्च जन्यं, ज्ञानं तदन्यदपि तेऽनुमतं कथं स्यात् । किं वा तथैव न घटादिविलक्षणं सत्, कार्यं मृदाद्यपि मतं तव कर्त्रजन्यम् ।।५१२।। संवेदनं स्वत इहोपगतं त्वया नो, जीवात्मबोधगतमीश्वरबोधगं तत् । ज्ञानत्वतो भवितुमर्हति नैव तद्वत्, सर्वज्ञता वद तदाऽस्य कथं नु युक्ता ।।५१३।। जात्या समानमपि तन्निखिलावगाहि, स्वात्मावभासि च विलक्षणमिष्टमस्य । कार्यत्वतस्तदिव तुल्यमकर्तृकं च, कुम्भादिनाऽङ्कुरमृदादि विलक्षणं सत् ।।५१४।। जन्यस्य वृत्तिनियमो ननु कार्यभावाद्, यद् येन जन्यमिह तन्नियतं तदस्तु । ज्ञानं तु तत् तव मते नहि जन्यमिष्टं, कस्मात् ततो न सकलात्मगतं भवेत् तत् ।।५१५।। एतेन सर्वविषयत्वप्रसाधिका ते, युक्तिर्भवेत् सकलवृत्तिप्रसाधिकाऽपि । अत्र स्वभाव उररीक्रियतेऽथ तर्हि, कर्तुर्विनाऽपि तत एव न किं मृदादि ? ।।५१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org