________________
४०
॥ श्रीन्यायसिन्धुः ॥ वैचित्र्यमेव शरणं विभुवादिनोऽपि, यलो यतो नहि ततोऽर्थभवे समर्थः । यले कृतेऽपि बहुशो न मुखं प्रयाति, ग्रासो विनैव च करग्रहणं जनानाम् ।।४९१।। आकर्षणं भवति तं च विनाऽपि मान्यं, स्पर्शादयो मणिगुणादयसस्तवाऽपि । सान्निध्यतो न च परोऽस्ति तयोस्तु प्राप्ति - !ऽदृष्टकल्पनमिहाऽपि तव प्रशस्तम् ।।४९२।। शत्रोर्यथा मरणहेतुरयं तथैव, श्येनादियागजनितः सुहृदो न किं स्यात् । उद्देश्यताद्यपरबन्धमुरीकरोषि, चेत् तीलं विभुतयाऽऽत्मप्रकल्पनेन ।।४९३।। संसर्गसङ्घटितमेव न कारणत्वं, शक्त्यात्मकं भवति किन्तु जिनागमे तत् । शक्तिः स्वकार्यनियता नियतात्मभाव - स्थित्या भवेनियतकारणगैव किञ्च ॥४९४।। स्याद् गौरवं तव विरोध्यविरोधकत्वे - ऽवच्छेदकस्य नियतस्य प्रवेशनेन । यस्माद् घटात्मनि मतेर्विरहेऽपि देहा - त्मन्यस्ति बुद्धिघटनैकविभुस्वरूपे ।।४९५।। ज्ञानादिकं प्रति तनोर्जनकत्वमेवं, स्यात् कल्पनीयमिति गौरवमत्र किं न ? ।। आपादकापगमतोऽविभुतामते नो, नाऽऽपत्तिरस्ति तत एव न गौरवं स्यात् ।।४९६।। ज्ञानादिकं च नहि तत्र परप्रकाशे, सिद्धयेत् कुतोऽस्य ननु साश्रयता गुणत्वात् । तत्तच्छरीरनियमोऽपि विभोर्न युक्तो, ज्ञानादि तन्नियमितं सुतरां न च स्यात् ।।४९७।। नाऽदृष्टतोऽपि नियमस्तव युज्यतेऽत्र, तस्यैव यन्न च नियामकमस्ति किञ्चित् ।
स्वस्वामिभावनियमोऽपि कथं तथैवा - ऽदृष्टात्मनोर्नियतयोरुपपद्यते ते ।।४९८।। न्यायमतखण्डने ईश्वरविचारः -
नन्तदर्थमिह सर्वपदार्थविज्ञो - ऽधिष्ठायकोऽक्षिचरणानुमतो महेशः । पश्यन् स एव नियतात्मगतं त्वदृष्टं, स्वस्वामिभावनियमेन करोतु किं नो ।।४९९।। कार्यं सकर्तृकमिति स्वत एव लोकैः, सामान्यतोऽत्र नियमोऽवगतो घटादौ । भूम्यङ्कुराद्यवयवित्ववशात् प्रसिद्धं, कार्यं स्वकर्तृशिवसाधनतत्परं नः ।।५००।। स्यालाघवात् स विभुरेकतयैव मान्यो, ज्ञानाद्यजन्यमत एव भवेच्च तस्य । नित्यत्वतो भवति चाऽविनिगम्यभावा - ज्ज्ञानादि सर्वविषये परमेश्वरस्य ।।५०१।। एतावता सकलवित् सकलप्रणेता, युक्त्या प्रसिद्ध्यति तथा सति तत्र मानम् । शब्दोऽपि तद्विरचितो नहि धर्म्यसिद्धि - दोषादितोऽनुमितितोऽस्य निराक्रियाऽस्ति ।।५०२ ।। इत्यादिगौतमसुतैरुपगीयमानं, न्यायानुसारिपथवर्ति न युक्त्यभावात् । युक्तिः सती भवति वस्तुप्रसाधिका या, नैकान्तवादिमतनिर्भरतो भवेत् सा ।।५०३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org