________________
॥ श्रीन्यायसिन्धुः ॥
नित्यो महान् सकलमूर्त्तगतोऽयमात्मा, नैकान्ततो भवितुमर्हति सत्त्वहानेः ।। बौद्धोक्तयुक्तिकवलेन भवेन्न नित्यो, माने महत्यपि न मानमिहाऽस्ति किञ्चित् ||४७८ || प्रत्यक्षतः सकलदेहभृतां स्वदेह - तुल्यात्ममानविषयैव मतिः प्रसिद्धा । प्रत्यक्षबाधिततयाऽनुमितिर्न चाऽत्रा - ऽत्यन्तप्रकृष्टपरिमाण प्रसाधिका स्यात् ||४७९ || नैवाऽपकृष्टपरिमाणतया महत्त्वे, कार्यत्वतो भवति नाशप्रसञ्जनं च । व्याप्तिस्तयोर्नहि प्रयोजकमन्तरेण येनाऽऽत्मनोऽपि विलयोऽर्थत आगतः स्यात् ||४८० || किञ्चाऽस्य मानमपि नस्तनुनामकर्मोद्भूतं मतं भवति तन्न च नित्यमेव । नाशेऽथ तस्य च भवेदनुगामिनोऽपि जीवस्य तत्परिणतस्य लयः कथञ्चित् ||४८१ ।। नो सर्वथा जिनमते विलयोऽस्ति कस्या ऽप्येवं स्थिते न परदर्शितदोषपोषः । यत्खण्डनेऽप्यवयवस्य तनोः करादे स्तद्देशखण्डनमिह प्रवदन्ति वृद्धाः ||४८२ ।। कम्पोपलव्धिरत एव च खण्डितेऽंश, आत्मप्रदेशगमनादुपपद्यते नः । नो नो मनोऽन्तरप्रवेशविकल्पनेन, कम्पोपपादनपरिश्रमदुःखलेशः || ४८३ ॥ एतेन सावयवताऽल्पमहत्त्वयोगात्, संयोगजत्वमुपगम्य विनाशिताऽस्य । तन्नाशतो ननु परेण प्रदर्शिता या सेष्टप्रसञ्जनतया क्षतिकारिणी नो || ४८४ ।। नो प्रक्रियाऽपि परमार्थत इष्यते सा, नैयायिकोपरचिता परमार्हतैस्तु । संयोगनाशमनपेक्ष्य यतो विनाशः, केयूरभावपरिणामककुण्डलस्य ।।४८५।। किञ्चाऽनुमानमपि देहसमानमान, आत्मन्यवाधिततयाऽत्र प्रवर्त्तते नः । यत्रैव यो भवति दृष्टगुणः स तत्र, कुम्भादिवद् भवति चाऽत्र न दोषलेशः || ४८६ | | नित्ये विभौ च नहि कर्मकलापवन्धो ऽभावे च तस्य सुतरां नहि मुक्तियोगः । नो जन्म मृत्युरपि नैव न कर्तृभोक्तृ भावौ तथाऽविचलितात्मनि तार्किकाणाम् ||४८७ || नोऽदृष्टमिष्टमखिलेऽपि च जन्यभावे, हेतुर्बुधाग्र्य ! ननु येन विभुस्तवाऽसौ । सिद्ध्येत् समस्तजनिमत्सु च तस्य योग- सम्पादनार्थमिति भावय तार्किक ! त्वम् ||४८८|| वायोर्गतिर्हुतभुजो ज्वलनं स्वभावात्, स्वस्वस्वभावनियता हि समस्तभावाः । किञ्चाऽपराद्धमणुभिस्तव येन तेषु, नाऽनन्तशक्तिमवलोकयसे स्फुटाभाम् ||४८९ ।। किञ्चाऽस्त्वदृष्टमिह कारणमर्थराशौ, नैयायिकस्य न ततोऽपि विभुत्वसिद्धिः । स्वाधारयोगपरिकल्पनमन्तराऽपि शक्त्यैव यद् भवितुमर्हति हेतुताऽस्य ||४९०||
Jain Education International
-
-
-
For Private & Personal Use Only
३९
www.jainelibrary.org