________________
॥ श्रीन्यायसिन्धुः ॥ मानान्तरं भवति किन्तु ततोऽपि नैव, प्रत्यक्षवाधिततया तदुपैति सिद्धिम् । स्याद्वादतः सकल एव तथा च हेतु - र्जात्यन्तरस्य गमको न तु शून्यतायाः ।।४६६।। दृश्यत्वतो जगति तेऽभिमतं न सिद्धिं, मिथ्यात्वमेति बुध ! दोषततेर्विलासात् । लिङ्गं त्विदं यदि न दृश्यमतो न सिद्धि - तिं यतो भवति लिङ्गमिह प्रमाणम् ॥४६७।। दृश्यं भवेद् यदि तदा स्वयमेव मिथ्या, नाऽन्यानुमाजननशक्तियुतं भवेत् तत् । व्याप्तिस्तथा भवति नाऽत्र न पक्षताऽस्ति, रूपत्रयं तव मतं च न युज्यतेऽस्मिन् ।।४६८।। शब्द: स्वयं तव मते नहि सत्यरूपो, मिथ्यात्वसिद्धिरपि तेन कथं घटेत ? । शक्तिग्रहाद्यपि न चाऽस्ति न शाब्दबोधः, श्रोता न चाऽस्ति न च कोऽपि तवाऽस्ति वक्ता ।।४६९।। ब्रह्मात्मकं यदि भवेत् प्रथितं च विश्व - मद्वैतवाद इह तर्हि तव प्रसिद्धयेत् । स्तम्भो घटः पट इति प्रविभेदतो न, प्रत्यक्षबुद्धिरुपपद्यत एव तत्त्वे ।।४७०।। निष्टङ्कनं भवति चाऽक्षमतेर्घटादे - न स्वान्यभेदकलनां हि विनैव तस्मात् । भेदावगाहिमतितस्तव बाध्यमाना, नाऽद्वैतबुद्धिरपि सिद्धिपथं प्रयाति ।।४७१।। सत्त्वं रजस्तम इति त्रितयस्वरूपा, माया मता मम तु सा निखिलेषु सत्ता । वादोऽपि नाम्नि परमत्र न तत्र काचि - दानिर्जिनैकशरणानुगतप्रकारे ।।४७२।। सत्त्वं स्थितिर्भवति जन्म रजोगुणोऽत्र, नाशस्तमोगुण इति त्रितयात्मकं यत् । सत्त्वं मतं सकलवस्तुगतं जिनानां, तादात्म्यसंवलितभेदयुतं मिथस्तत् ।।४७३।। यत्स्वप्रकाशमिह तत्र तमो न दृष्टं, ब्रह्मस्वरूपनियता कथमस्त्वविद्या । विद्या तथा भवति नो विषयं विनैव, तत्त्वेऽथवा ननु तयोरिह को विशेषः ।।४७४।। वाङ्मात्रतो विशदबोधप्रकाशमानं, विश्वं न चाऽपलपितुं खलु शक्यमन्यैः ।
एवं स्थितौ भवति तन्मतमेव मिथ्या, तत्प्रक्रियाश्रयणमत्र बुधैर्न कार्यम् ।।४७५।। न्यायमतखण्डनम् -
ज्ञानस्वरूपमपि यस्य मते न सिद्ध्ये - नैयायिकस्य न कथाकरणेऽधिकारः । व्यक्तिं विनैव ननु धर्मपरीक्षणं हि, खे चित्रनिर्मितिसमं प्रवदन्ति विज्ञाः ।।४७६।। आत्मा यतो भवति तस्य मते प्रमाता, ज्ञानं प्रमा तदुभयोः समवायवन्धः । एतत् त्रय नहि प्रमाणपथं प्रयाति, प्रामाण्यतत्त्वमननं व तदाऽस्वतोऽस्तु ।।४७७।।
1. नो तस्य गौतमसुतस्य कथाधिकारः इति वा पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org