________________
॥ श्रीन्यायसिन्धुः ॥
किञ्चेष्टतादिकमपि प्रथितं न कस्मादिच्छादयोऽप्यनुमितेर्विषयास्ततः स्युः । ज्ञाता तथा भवति साऽनुमितौ समर्था, तत्राऽनवस्थितिरपर्यवसानतः स्यात् ||४५३ || व्याप्तिग्रहोऽपि च तया सह तस्य वाच्यः, सोऽपि प्रसिद्ध्यति न तामपरां विहाय । एषाऽनवस्थितिलता त्वपरोदिता स्यात्, तस्मात् कथं कथय तस्य तयाऽनुमाऽस्तु ||४५४ || ज्ञप्तिः फलं यदि भवेदनुमापकं सा, स्वेनैव सिद्ध्यति तदोत विभिन्नबोधात् । आधे तयैव निखिलो व्यवहार इष्टः स्यात् तेऽन्यवोधपरिकल्पनमर्थवन्नो || ४५५ || अन्त्ये ऽनवस्थितिनिपातभयान्न मुक्ति - र्ज्ञाता यतो भवति साऽनुमितौ तु हेतुः । व्यापारतोऽस्ति नहि कोऽपि विशेषलेश - स्तस्याः किमर्थमिह कल्पनमादृतं स्यात् ॥ ४५६ ॥
प्राभाकरोऽत्र विषये न कथाधिकारी, संवेदनं भवतु येन तदुक्तमिष्टम् । ज्ञानत्वमेव प्रमितित्वमनेन बोधे, प्रोक्तं भ्रमत्वमपरं न च तस्य किञ्चित् ||४५७||
भेदाग्रहः खलु प्रवर्तक इष्यते तै- र्भ्रान्तिस्थले परमसौ न विचारमार्गे । सुप्तस्य तेन नहि जायत एव यल- स्तुच्छस्ततो नहि स तेऽपि मते भवेच्च ||४५८ ||
भेदाग्रहो भवति ते ननु पर्युदास - वृत्त्या त्वभेदमतिरेव तथा च सिद्धा । भ्रान्त्यात्मिका मतिरिति स्वत एव नैव, बोधत्वतो भवति मात्वमतेः प्रसिद्धिः ||४५९ ॥ ज्ञप्तौ यथैव परतश्च भवेत् प्रमाणं, कार्ये तथैव परतो विनिभालनीयम् । प्रमात्वधिकृता प्रकृते ततो न स्याद्वादपक्षविमुखः परतोऽपि पक्षः || ४६० ||
वेदान्तमतखण्डनम्
मीमांसके प्रतिहते न च सर्ववस्त्व द्वैतप्रवादिमतमप्यनुमोदनीयम् । युक्तिः समा तदुभयोर्हि निराक्रियायां, पूर्वप्रदर्शितदिशा त्ववधारणीया ||४६१ ॥ शून्यत्ववादिमतखण्डनदर्शितोक्त - नीतिस्तथा भवति तस्य निराक्रियायाम् । विज्ञानवादपरिमर्दनयुक्तिजालो - ऽप्यस्त्येव किञ्च तदुपज्ञप्रकारमार्गे ॥ ४६२ ॥
सर्वं सदेव हि विश्वमसत् तथा नो, आविद्यकं भवति किन्त्विह दृश्यवस्तु । एतच्च तैरुपगतं परमत्र तत्त्वं ज्ञात्वाऽपि नो विशदयन्ति तदेव चित्रम् ||४६३ || जात्यन्तरे भवति वस्तुनि नैव दोषः, प्रत्येकपक्षमवलम्ब्य यतोऽस्य वृत्तिः । यद् व्यावहारिकमिदं तव सत्त्वमिष्टं तत् पारमार्थिकतयैव विचारयाऽन्तः ।।४६४।। शून्यत्वमस्य जगतो न विना प्रमाणं, प्रामाणिकस्य निकटे तव सिद्धिमेति । प्रत्यक्षमानमिह सत्त्वप्रसाधकं न मिथ्यात्वसाधकतयाऽभ्युपगन्तुमर्हम् ||४६५ ||
Jain Education International
For Private & Personal Use Only
३७
www.jainelibrary.org