Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 69
________________ ॥ श्रीन्यायसिन्धुः॥ स्यालाघवाद् यदि न सर्वगतः स बोध - स्तेनैव सर्वविषयोऽपि न युज्यतेऽथ । एकत्र तद्विनिगमो न परत्र चेत् तत्, तुल्यं निभालय मृदादिषु कार्यतायाम् ।।५१७।। कर्तृत्वमस्य यदि बोधप्रयलकाम - संसर्ग एव ननु तर्हि समस्तभावे । कर्तृत्वमापतितमस्य ततो न नित्यं, किञ्चित् तवाऽप्यभिमतं स्थिरतामुपैतु ।।५१८।। यद्धेतुगोचरमतिर्ननु तस्य कर्ता, नाऽन्यस्य तद्विगमतो यदि सम्मतस्ते । ज्ञानादि तर्हि नहि केवलमर्थकारि, कार्यव्यवस्थितिरिहाऽन्यवलाद् यतोऽभूत् ।।५१९।। कर्ता न सर्वजनकावगतौ समर्थः, कुम्भादिकार्यजननेऽप्यवलोकितोऽस्ति । यस्माददृष्टमपि कारणमस्त्यदृष्ट - कालादिकं घटपटादिविधानदक्षैः ।।५२०।। एवं समस्तजनकावगतेरभावे - ऽपीशोऽङ्कुरादि विदधातु ततो न तस्य । स्यात् कल्पनं सकलकारणप्रेरकत्वा - दज्ञातहेतुरपि किं न करोतु कार्यम् ? ।।५२१।। सामान्यतो न वपुषाऽनुविधानमस्ति, कार्यस्य तेन नहि कारणमिष्यते तत् । कर्ताऽपि नैव सममस्ति विलोक्यमानं, प्रेक्षावता तदिति सोऽपि न कारणं ते ।।५२२।। न प्रक्रियानुसरणेन भवेद् व्यवस्था, कर्ता प्रसिद्ध्यतु यतो निखिलेऽपि कार्ये । किचाऽन्वयो न नियतो व्यतिरेक एव, किन्त्वत्र कारणतयाऽभ्युपगम्यमाने ।।५२३ ।। ईशस्त्वया सकलकालगतो मतोऽस्ति, काले ततो न विरहोऽस्य तथा न देशे । व्याप्त्याऽन्वयादिति कथं व्यतिरेकशून्ये, हेतुत्वमप्युपगतं तव सिद्धिमेतु ।।५२४।। ज्ञानादयो निखिलकार्यजनौ समर्था, व्यापारतामनुभवन्ति सदैव तस्य । कार्यं ततो निखिलमेव सदैव किं न, सामग्र्यभाजि जनके न जनेर्विलम्वः ।।५२५।। सोऽपेक्षते यदि परं सहकारिणं त - नित्यं भवेदुत ततो व्यतिरिक्तमेव । आद्ये भवेज्जनिमतां न जनेर्विलम्बः, कर्ता सदाऽस्ति सहकारिकरम्बितो यत् ।।५२६।। अन्त्ये स ईश्वरकृतोऽभ्युपगम्यते चेत्, तस्याऽपि किं नहि भवेच्च सदैव जन्म । तत्राऽपि सोऽन्यसहकारिसमाश्रयेण, हेतुर्भवेद् यदि तदा सुदृढाऽनवस्था ।।५२७।। इष्टानवस्थितिरियं हि प्रमाणमूला, विश्वव्यवस्थितिरियं न यतोऽन्तरा ताम् । इत्यादितार्किकवचो न विचाररम्यं, भावावबोधविरहेण प्रवर्तमानम् ।।५२८।। अन्यानि यानि जनकानि त्वयोदितानि, वस्तूनि तान्यपि महेशकृतानि चेत् स्युः । सर्वाणि तानि न भवन्ति सदैव कस्मा - देवं स्थितौ च जनकानि कुतः क्रमेण ।।५२९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158