Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 76
________________ ॥ श्रीन्यायसिन्धुः ॥ नाऽयोग्यमिष्टमिह शृङ्गमतो यदि स्यात्, तद् वै शशे किमु न तन्मतिरक्षजा तत् । प्रत्यक्षबोधविरहाच्च ततो न तस्य, सद्भावसिद्धिरियमेव गतिर्न जीवे ।।६०८।।। आत्मा परो न च परस्य हि चर्मदृष्टे - योग्यस्ततो विशदबुद्धिचरो न चाऽन्यैः । सर्वज्ञबोधविषयास्तु समस्तभावा - स्तत्राऽऽत्मनोऽपि निखिलस्य कथं न भानम् ॥६०९।। चेष्टादिलिङ्गजनिता मितिरस्मदादे - मानं परात्मविषयाऽपि च चर्मदृष्टेः । स्वात्मा स्वसंविदितबोधत एव साक्षात्, सिद्धो न चाऽन्यदिह मानमपेक्षते नः ।।६१०।। तत्राऽहमित्यधिगतिर्न शरीरतोऽस्ति, यस्मात् तमस्यपि महानिबिडे रजन्याम् । देहप्रबोधविरहे नयनादितोऽस्या, भावो जनैः स्वविदितो निरपहृतोऽस्ति ।।६११।। नेत्राद्यजन्यविषयत्ववतस्त्वहं त्वं, स्वाभाविकं भवति नो नयनादियोग्ये । किन्त्वौपचारिकमतो व्यतिरिक्त आत्मा - ऽहन्त्वप्रतीतिविषयो न शरीरमेव ।।६१२।। अत्यन्तसन्निधजने निजकार्यनिष्ठे, द्रष्टाऽहमित्यधिगतिर्ननु लौकिकानाम् । देहे स्वभोगजनकत्वबलात् तथैवा - ऽहन्त्वप्रतीतिरुपपद्यत एव पुंसाम् ।।६१३।। तस्मान सुख्यहमिति प्रमितिम॒षार्था, गौरोऽहमित्यधिगतेरुपचारतैव । आत्मा ममाऽयमिति केवलमुक्तिलासो, देहे त्वयं भवति वस्तुत एव बोधः ।।६१४।। व्याप्त्यग्रहादनुमितिर्न परात्मनश्चेद्, धूमाद्भुताशनमतिस्तव किंनिमित्ता ? | नैवाऽनुमानमिह सम्मतमित्यवाच्यं, पूर्वोक्तदोषगणभीतिमता त्वया तु ।।६१५।। देशान्तरं तव मते न गृहीतमक्षैः, कालान्तरं न तव भूतिविविक्तिमस्ति । तस्मात् कथं कथय ते व्यभिचारशङ्का, स्यादन्तरानुमितिमज्ञ ! परोक्षभावे ।।६१६।। नो पञ्चलक्षणमिहाऽनुमतं तु लिङ्ग, नो वा त्रिलक्षणमथाऽनुपपन्नता या । साध्यं विना भवति हेतुगता तु सैका, सद्धेतुलक्षणमतो न च दोषपोषः ।।६१७।। सा कार्यकारणबलादुत वा स्वभावात्, किं वाऽन्यतः क्वचिदपि प्रथिता यदि स्यात् । लोकप्रवृत्तिविरहादिप्रसङ्गतर्का - जय्या तदा नहि बिभेति च शड्या ते ।।६१८॥ प्रत्यक्षतोऽनुमितितोऽथ च शाब्दतो वा, व्याप्तिग्रहो न च मतो बुध ! जैनतन्त्रे । तत्खण्डनं निखिलमेव सहायकं नो, ाशेन तेऽपि हृदि पल्लविता जिनोक्तिः ॥६१९।। तर्कात्मकः सकलसाध्यसमग्रहेत्वा - क्षेपेण मानमिह जैनमतानुगानाम् । व्याप्तेर्मतावलमयं श्रुतिगोचरः किं, जातः कदाचिदपि ते न गुरोः सकाशे ।।६२०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158