Book Title: Nyayasindhu Author(s): Nemisuri, Kirtitrai Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi AhmedabadPage 67
________________ ४० ॥ श्रीन्यायसिन्धुः ॥ वैचित्र्यमेव शरणं विभुवादिनोऽपि, यलो यतो नहि ततोऽर्थभवे समर्थः । यले कृतेऽपि बहुशो न मुखं प्रयाति, ग्रासो विनैव च करग्रहणं जनानाम् ।।४९१।। आकर्षणं भवति तं च विनाऽपि मान्यं, स्पर्शादयो मणिगुणादयसस्तवाऽपि । सान्निध्यतो न च परोऽस्ति तयोस्तु प्राप्ति - !ऽदृष्टकल्पनमिहाऽपि तव प्रशस्तम् ।।४९२।। शत्रोर्यथा मरणहेतुरयं तथैव, श्येनादियागजनितः सुहृदो न किं स्यात् । उद्देश्यताद्यपरबन्धमुरीकरोषि, चेत् तीलं विभुतयाऽऽत्मप्रकल्पनेन ।।४९३।। संसर्गसङ्घटितमेव न कारणत्वं, शक्त्यात्मकं भवति किन्तु जिनागमे तत् । शक्तिः स्वकार्यनियता नियतात्मभाव - स्थित्या भवेनियतकारणगैव किञ्च ॥४९४।। स्याद् गौरवं तव विरोध्यविरोधकत्वे - ऽवच्छेदकस्य नियतस्य प्रवेशनेन । यस्माद् घटात्मनि मतेर्विरहेऽपि देहा - त्मन्यस्ति बुद्धिघटनैकविभुस्वरूपे ।।४९५।। ज्ञानादिकं प्रति तनोर्जनकत्वमेवं, स्यात् कल्पनीयमिति गौरवमत्र किं न ? ।। आपादकापगमतोऽविभुतामते नो, नाऽऽपत्तिरस्ति तत एव न गौरवं स्यात् ।।४९६।। ज्ञानादिकं च नहि तत्र परप्रकाशे, सिद्धयेत् कुतोऽस्य ननु साश्रयता गुणत्वात् । तत्तच्छरीरनियमोऽपि विभोर्न युक्तो, ज्ञानादि तन्नियमितं सुतरां न च स्यात् ।।४९७।। नाऽदृष्टतोऽपि नियमस्तव युज्यतेऽत्र, तस्यैव यन्न च नियामकमस्ति किञ्चित् । स्वस्वामिभावनियमोऽपि कथं तथैवा - ऽदृष्टात्मनोर्नियतयोरुपपद्यते ते ।।४९८।। न्यायमतखण्डने ईश्वरविचारः - नन्तदर्थमिह सर्वपदार्थविज्ञो - ऽधिष्ठायकोऽक्षिचरणानुमतो महेशः । पश्यन् स एव नियतात्मगतं त्वदृष्टं, स्वस्वामिभावनियमेन करोतु किं नो ।।४९९।। कार्यं सकर्तृकमिति स्वत एव लोकैः, सामान्यतोऽत्र नियमोऽवगतो घटादौ । भूम्यङ्कुराद्यवयवित्ववशात् प्रसिद्धं, कार्यं स्वकर्तृशिवसाधनतत्परं नः ।।५००।। स्यालाघवात् स विभुरेकतयैव मान्यो, ज्ञानाद्यजन्यमत एव भवेच्च तस्य । नित्यत्वतो भवति चाऽविनिगम्यभावा - ज्ज्ञानादि सर्वविषये परमेश्वरस्य ।।५०१।। एतावता सकलवित् सकलप्रणेता, युक्त्या प्रसिद्ध्यति तथा सति तत्र मानम् । शब्दोऽपि तद्विरचितो नहि धर्म्यसिद्धि - दोषादितोऽनुमितितोऽस्य निराक्रियाऽस्ति ।।५०२ ।। इत्यादिगौतमसुतैरुपगीयमानं, न्यायानुसारिपथवर्ति न युक्त्यभावात् । युक्तिः सती भवति वस्तुप्रसाधिका या, नैकान्तवादिमतनिर्भरतो भवेत् सा ।।५०३।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158