Book Title: Nyayasindhu Author(s): Nemisuri, Kirtitrai Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi AhmedabadPage 73
________________ ॥ श्रीन्यायसिन्धुः ॥ तन्मानसत्वनियतं न परोक्षवृत्ति, किं वाऽस्त्वतो भवति लाघवमत्र पक्षे । सामान्यतो भवति मानसबोधमात्रे, बाह्याक्षवोधजनकं प्रतिबन्धकं यत् ।।५६९।। तस्मिन् परोक्षमतियोगिनि कल्पिते तु, किं गौरवं न प्रतिबन्धकतान्यतातः । प्रत्यक्षता निखिलविज्ञजनप्रसिद्धा, हेया न तर्करसिकैरनुमाऽऽत्मवोधे ।।५७०।। साडूर्य्यदोषघटना तु कुतार्किकाणां, जातित्ववाधकतयाऽभिमता न विज्ञैः । आत्मत्वजातिरपि येन न भूतसङ्के, देहात्मके गुरुमतेन भवेत् प्रसिद्धा ।।५७१।। संयोग इन्द्रियभवे न पृथक् प्रकल्प्यो, व्यापार आत्मविषये मनसोऽपि वोधे । संयोगिनो हि समवायत एव देहे, नेत्रादिना मतिरुदेष्यति तार्किकाणाम् ।।५७२।। शालूकतो भवति गोमयतोऽपि जन्म, शालूकजातिनियमेऽपि च वृश्चिकानाम् । ज्ञानेकजातिनियमेऽपि विभिन्नजाते - हेतोर्भवेत् किमु न बुद्धिजनिस्तथैव ।।५७३।। पित्रोः कदाचिदिह शुक्ररजःसमुत्थो, वोधो रसायनप्रयोगभवः कदाचित् । अभ्यासतो भवति सोऽथ च तेन नाऽऽत्मा, देहात् पृथक् तव प्रसिद्धिमुपैति युक्त्या ।।५७४।। प्रज्ञादिकं प्रतिदिनं च शरीरवृद्ध्या, प्राप्तप्रकर्पमिह सर्वजनप्रसिद्धम् । दृष्ट्वाऽपि देहगुणतां यदि तस्य नैव, मन्ता तदा भवतु तस्य तु को विपक्षः ।।५७५।। वालस्य जन्मसमयेऽपि च दुग्धपाने, वृत्तिः स्वभाववलतो न च वासनातः । शङ्का न तत्र विदुषां खलु युज्यतेऽर्थे, स्वाभाविकी हि वहुधा जगतो व्यवस्था ।।५७६।। शीतं जलं कथय केन कृतं तथाऽग्नि - रुष्णस्वभाव इह केन विनिर्मितोऽभूत् । आकर्षणानुगतशक्तिरयोमणीनां, कस्मादभून्न च तथा प्रकृते वितर्कः ।।५७७।। नो कार्यकारणसमाश्रयणेन कोऽपि, कार्यो विचार इह तर्कवितर्कदक्षैः ।। नो वस्तुतो गुरुमतेऽनुमतः कयोश्चिद्, यत्कार्यकारणतया नियमेन बन्धः ।।५७८।। प्रत्येकशी घटपटादिषु वर्तते नो, त्रित्वादिकं पुनरिदं समुदायवृत्ति । तद्वन्न भूमिजलवह्निमरुत्स्वपि स्यात्, प्रत्येकशश्च किमवृत्त्यपि चेतनत्वम् ।।५७९।। कुम्भादिभावमिह योग्यमवाप्य दृश्यो - ऽदृश्योऽपि चाऽणुनिकरः समुदाय्यभिन्नः । देहस्वभावमवलम्व्य तथैव किं न, भूतानि चेतनतया परिणामवन्ति ।।५८०।। मुक्तात्मनां विबुधगौतमतन्त्रसिद्धौ, ज्ञानादिकस्य विरहोऽपि यथा तथैव । प्राणादियोगविगमे ननु चेतनाया, देहे लयोऽपि मृतके गुरुतन्त्रसिद्धः ।।५८१।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158