Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 72
________________ ॥ श्रीन्यायसिन्धुः ॥ शृङ्गं शशीयमपि किं न मतं त्वयाऽङ्गा, नो दृश्यते क्वचिदपीति न तन्मतं चेत् । आत्मोपलब्ध इह किं भवता कदाचि - नेत्रादिना ननु यतो न भवेत् स मिथ्या ।।५५६॥ नाऽहं प्रतीतिविषयो भवतामिहाऽऽत्मा, गौरोऽहमित्यनुभवो हि शरीरधर्मः । एकत्र धर्मिणि सहावगतौ प्रवीणो - ऽहं त्वस्य सुख्यहमिति प्रथनं तु मिथ्या ।।५५७।। लिङ्गं न चाऽत्र निरुपद्रवमीक्ष्यते यत्, तेनाऽनुमानमपि तस्य भवेन सिद्धौ । नोऽव्याप्तिबुद्धिमनपेक्ष्य तवाऽनुमायाः, किञ्चोद्भवोऽप्यभिमतो बुध ! लिङ्गजायाः ।।५५८।। व्याप्तिग्रहो भवति न व्यभिचारशङ्का - भङ्गानुकूलमनपेक्ष्य च तत्र तर्कम् । व्याप्तिग्रहं च विरहय्य न तर्कजन्म, तत्राऽपि किं भवति न व्यभिचारशङ्का ।।५५९।। तस्याः क्षयोऽपि यदि तर्कसमाश्रयेण, स्याच्चक्रको भ्रमणतोऽभ्रमणेऽनवस्था । व्याप्तिग्रहोऽक्षजनितः किमु लिङ्गजो वा, तत्राऽक्षजो यदि मतो न च युज्यते सः ।।५६०।। यस्मात् पुरःस्थितपदार्थमतौ प्रवीणं, नेत्रादिकं व्यवहितार्थमतावलं नो । व्याप्तिग्रहो निखिलसाधनसाध्यधर्मि - ग्राही कथं भवतु तेन न लिङ्गजोऽपि ।।५६१।। नैवाऽगृहीतनियमोऽनुमितौ समर्थो, हेतुस्ततो नियमबुद्धिरिहाऽपि लिङ्गात् । तत्राऽपि तद्ग्रहणमन्यत एव लिङ्गा - देषाऽपरा नियमबुद्धिकृताऽनवस्था ।।५६२।। गौणं प्रमाणमिह नैव मतं बुधानां, प्रत्यक्षमात्रमत एव भवेत् प्रमाणम् । गौणात् त्वयाऽनुमितिकारणवृत्तिरुक्ता, गौणत्वतो न तव मानमतोऽनुमानम् ।।५६३।। पक्षो यतो भवति साध्यविशिष्टधर्मी, व्याप्तिग्रहे स तव साध्यपरो मतोऽथ । व्याप्यस्य पक्षघटनाग्रहणे स धर्मी, गौणाद् विना कथय काऽत्र तवाऽस्ति नीतिः ।।५६४।। सामान्यमत्र यदि साध्यतया मतं ते, तत्साधनं भवति तर्हि वृथैव सिद्धेः । किञ्च प्रवृत्तिरपि नैव फलार्थिनां स्या - ज्ज्ञानं विनाऽन्यदिह तस्य यतो न कार्यम् ।।५६५।। व्याप्त्यग्रहाद् भवति नैव विशेषरूपः, साध्योऽन्वयादिघटना न विशेषतो यत् । प्रत्येकपक्षपरिदर्शितदोषतस्तु, नैवोभयं भवति साध्यतयाऽप्यदुष्टम् ।।५६६।। लोके तु धूममतितो गिरिगह्वरे या, धूमध्वजावगतिरस्ति न साऽनुमाख्या । सम्भावना भवति किन्त्वथवा स्मृतिः सा - ऽसंसर्गभानविकला व्यवहारयोग्या ।।५६७।। यच्चाऽस्त्यनुव्यवसितावनुमात्वभान - मस्यास्ततो भवति नाऽनुमितित्वसिद्धिः । यस्मादसन्मतिबलादुपनीतमेवा - ऽसत्ख्यातिबोधविषयोऽनुमितित्वमस्याः ।।५६८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158