Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

Previous | Next

Page 70
________________ ॥ श्रीन्यायसिन्धुः ॥ तत्राऽनवस्थितिलता न हृदि स्थिता ते, जैनैरपीह ननु सोपगतैव यस्मात् । किन्त्वीदृशस्य समपेक्षण ईश्वरस्या - ऽपेक्षानवस्थितिघटा त्वपरैव काचित् ।।५३०।। तत्कारणानि यदि नेश्वरसम्भवानि, तैरेव किं भवति नो व्यभिचारि लिङ्गम् । प्रेक्षावतां भवति किञ्च प्रयोजनेन, व्याप्ता प्रवृत्तिरिह नेतरथा क्रियायाम् ।।५३१।। सम्प्राप्तकामनिकरस्य महेश्वरस्य, नो ते प्रपञ्चकरणात् किमपीष्टमिष्टम् । क्षित्यकुरादिकमयं विदधातु कस्मात्, प्रेक्षाऽथवा किमु भवेन्न त्वयाऽस्य लुप्ता ॥५३२।। कारुण्यतो भगवतो यदि ते प्रवृत्तिः, सृष्टिर्भवेच्छुभमयी न च तद्विरुद्धा । क्रीडा तु रागनियता न भवेन्महेशे, न क्रीडयाऽपि तत एव जगत्प्रवृत्तिः ।।५३३।। दुःखापनोदनकृते च भवेद् विलासः, किं वा सुखाय तदुभावपि नो महेशे ॥ स्वातन्त्र्यमात्मनियतं सकलेषु पश्यन्, दुःखान्वयं जगदिदं प्रकरोतु कस्मात् ।।५३४।। धर्माद्यपूर्वसहकारिवशान्महेशो, वैचित्र्यशालि जगदेव करोति नाऽन्यत् । एवं मतं यदि तदा परतन्त्रतैव, स्वातन्त्र्यमस्य नहि तेऽभिमतं तु युक्तम् ।।५३५।। धर्मं विलोक्य ननु तेन सुखं करोतु, पापं विलोक्य विरतोऽस्तु च दुःखसृष्टेः । एवं कृते भवति नो परतन्त्रताऽनु - कम्पाऽपि सर्वजनिमत्सु प्रकाशिता स्यात् ।।५३६।। पापं विधाय पुनरस्य विनाशकर्तु - भॊगेन मूढजनतोऽप्यपकृष्टताऽस्य । नूनं भवेन्न नियमोऽस्ति तथा विनाशो, भोगेन कर्मपटलस्य न चाऽन्यथेति ।।५३७।। ज्ञानाग्निनाऽप्यशुभकर्मततेर्विनाशः, शास्त्रे तवाऽपि ननु सम्प्रतिपन्न एव । ज्ञानं स्वसन्ततिगतं न कथं विधाय, सर्वोपकारनिपुणोऽप्यभवन्महेशः ।।५३८।। दण्ड्याय दण्डमिह यन्नृपतिर्ददाति, रागादिदोपकलितो व्यपदिश्यते तत् । दण्ड्यापकारविषये च न कर्तृताऽस्य, शम्भुस्तवाऽभिलषितस्तु ततो विरुद्धः ।।५३९।। राजा स्वतन्त्र इह नैव तथा क्रियायां, मन्त्र्याधनेककरणोपकृतः प्रभुः सः । राज्यक्षयादिभयतो नयमार्गगामी, नैवं शिवस्तव मतोऽखिलकार्यकर्ता ।।५४०।। राजा प्रसन्नहृदयो द्रविणं ददाति, क्रुद्धो हरत्यखिलमेव धनं च किं वा । कोपप्रसादविगतो भवतां महेशः, कस्येष्टकृद् भवतु कस्य च दुःखकारी ? ।।५४१।। धर्मादयो नियमिता नियमेन कार्य, कुर्वन्ति नोऽनियमिता इति शम्भुसिद्धिः । शम्भुः स्वयं यदि न कार्यजनौ प्रभुः स्यात्, सिद्धिस्तदा भवतु तस्य कथं पटिष्ठा ? ।।५४२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org |

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158