Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 58
________________ ॥ श्रीन्यायसिन्धुः ॥ सामान्यतो विरहितो न विशेष एव शक्यस्तथाऽननुगमेन भवेत् परन्तु । एतद्द्वयं भवति भिन्नमभेदयोगि, संसृष्टमेव वचसामिह शक्यमिष्टम् ||३७५।। शक्तस्तथा भवति नाऽनुगतस्वरूपो, नो व्यक्तिरूप इह कादिरसत्त्वयोगात् । सामान्यसंवलित एष विभिन्नरूपो, जन्योऽपि किं नहि भवेद् गमकोऽर्थराशेः || ३७६ || नित्यत्वतोऽस्ति वचसां यदि दोषमुक्ते - न भ्रान्तिबुद्धिजनने पटुता तदा किम् ? | तेनैव तेषु न भवेद् गुणयोगलभ्यं, प्रामाण्यमप्यनुमतं बुध ! ते मते तु ||३७७|| बौद्धागमादिषु यथा पुरुषस्य कर्तुः, स्मृत्या मता पुरुषकर्तृकता तथैव । वेदे स्मृतिर्नहि किमस्ति यतो न तस्य कर्ता प्रसिद्ध्यति पुमान् तव नीतिभीतः ||३७८ || सिद्धार्थकं च वचनं न मतं प्रमाणं, मीमांसकस्य तत एव न कर्तृसिद्धिः । विध्यङ्गतां स्तुतिपरत्ववलेन किन्तु, तस्याऽभ्युपेत्य फलवत्त्वमपि प्रशस्तम् ||३७९ ।। एतद्वचो नहि विचारपथं बुधानां, मीमांसकस्य कथमप्यवगाहतेऽत्र । स्वार्थे न चेद् यदि प्रमाणमसौ तदाऽस्य, विध्यङ्गताऽपि नियतस्य न भेदतः स्यात् ||३८०|| सर्वस्य सर्वविधिवोधितकर्मयोगः, स्यादर्थवादवचनस्य निरर्थकत्वे । बाध्यार्थकस्य यदि चाऽन्यपरत्वमस्य, नैतावता सकलमेव निजार्थशून्यम् ||३८१|| सिद्धार्थकाच्च वचसः स्मृतिरेव कर्तु - र्नो चेत् तदा सुगतकर्तृकतादिसिद्धिः । गमादिषु कथं भविता तथा च, द्वेषोऽपि तेषु भवतामनिमित्तकः स्यात् ||३८२|| सर्वज्ञविचारः सर्वज्ञ एव यदि कोऽपि भवेन्न वक्ता, युक्तस्तदा पुरुषदोषकृतस्तु दोषः । शब्द परं विदितसर्वपदार्थतत्त्व - स्तीर्थङ्करो न भवतां श्रुतिगोचरः किम् ||३८३|| सर्वज्ञता वचनकर्तृतया विरुद्धा, सिद्धा भवेद् यदि तदा न भवेत् स वक्ता । न त्वेतदस्ति वद काऽत्र तवाऽस्ति युक्तिः, सियेद् यया नहि पुमान्निखिलार्थविज्ञः । ३८४।। स्वार्थावगाहिमतिजन्यमिह प्रसिद्धं वाक्यं प्रमाणमिति तेन विलक्षणेन । वक्ता प्रसिद्ध्यति विलक्षण एव लोके, व्याप्तिस्तथैव नियता न विपर्ययेण || ३८५ || दृष्टार्थकं च वचनं न जिनप्रणीतं, बाधां प्रमाणनिकरेण यतो निजार्थे । स्याद्वादलाञ्छिततनौ भजते तदैक्य वाक्यात् तदन्यदपि मानतयैव मान्यम् || ३८६|| एतादृशेन वचनेन निजप्रणेतृ सिद्धौ कथं न सकलार्थविदः प्रसिद्धिः । वाधप्रमाणविगमादपि किञ्च युक्ता, सर्वज्ञसिद्धिरनुमात्मतया प्रमाणम् ||३८७|| Jain Education International ३१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158