________________
॥ श्रीन्यायसिन्धुः ॥
सामान्यतो विरहितो न विशेष एव शक्यस्तथाऽननुगमेन भवेत् परन्तु । एतद्द्वयं भवति भिन्नमभेदयोगि, संसृष्टमेव वचसामिह शक्यमिष्टम् ||३७५।। शक्तस्तथा भवति नाऽनुगतस्वरूपो, नो व्यक्तिरूप इह कादिरसत्त्वयोगात् । सामान्यसंवलित एष विभिन्नरूपो, जन्योऽपि किं नहि भवेद् गमकोऽर्थराशेः || ३७६ || नित्यत्वतोऽस्ति वचसां यदि दोषमुक्ते - न भ्रान्तिबुद्धिजनने पटुता तदा किम् ? | तेनैव तेषु न भवेद् गुणयोगलभ्यं, प्रामाण्यमप्यनुमतं बुध ! ते मते तु ||३७७|| बौद्धागमादिषु यथा पुरुषस्य कर्तुः, स्मृत्या मता पुरुषकर्तृकता तथैव । वेदे स्मृतिर्नहि किमस्ति यतो न तस्य कर्ता प्रसिद्ध्यति पुमान् तव नीतिभीतः ||३७८ || सिद्धार्थकं च वचनं न मतं प्रमाणं, मीमांसकस्य तत एव न कर्तृसिद्धिः ।
विध्यङ्गतां स्तुतिपरत्ववलेन किन्तु, तस्याऽभ्युपेत्य फलवत्त्वमपि प्रशस्तम् ||३७९ ।। एतद्वचो नहि विचारपथं बुधानां, मीमांसकस्य कथमप्यवगाहतेऽत्र ।
स्वार्थे न चेद् यदि प्रमाणमसौ तदाऽस्य, विध्यङ्गताऽपि नियतस्य न भेदतः स्यात् ||३८०||
सर्वस्य सर्वविधिवोधितकर्मयोगः, स्यादर्थवादवचनस्य निरर्थकत्वे । बाध्यार्थकस्य यदि चाऽन्यपरत्वमस्य, नैतावता सकलमेव निजार्थशून्यम् ||३८१|| सिद्धार्थकाच्च वचसः स्मृतिरेव कर्तु - र्नो चेत् तदा सुगतकर्तृकतादिसिद्धिः ।
गमादिषु कथं भविता तथा च, द्वेषोऽपि तेषु भवतामनिमित्तकः स्यात् ||३८२||
सर्वज्ञविचारः
सर्वज्ञ एव यदि कोऽपि भवेन्न वक्ता, युक्तस्तदा पुरुषदोषकृतस्तु दोषः । शब्द परं विदितसर्वपदार्थतत्त्व - स्तीर्थङ्करो न भवतां श्रुतिगोचरः किम् ||३८३||
सर्वज्ञता वचनकर्तृतया विरुद्धा, सिद्धा भवेद् यदि तदा न भवेत् स वक्ता । न त्वेतदस्ति वद काऽत्र तवाऽस्ति युक्तिः, सियेद् यया नहि पुमान्निखिलार्थविज्ञः । ३८४।। स्वार्थावगाहिमतिजन्यमिह प्रसिद्धं वाक्यं प्रमाणमिति तेन विलक्षणेन ।
वक्ता प्रसिद्ध्यति विलक्षण एव लोके, व्याप्तिस्तथैव नियता न विपर्ययेण || ३८५ || दृष्टार्थकं च वचनं न जिनप्रणीतं, बाधां प्रमाणनिकरेण यतो निजार्थे । स्याद्वादलाञ्छिततनौ भजते तदैक्य वाक्यात् तदन्यदपि मानतयैव मान्यम् || ३८६|| एतादृशेन वचनेन निजप्रणेतृ सिद्धौ कथं न सकलार्थविदः प्रसिद्धिः । वाधप्रमाणविगमादपि किञ्च युक्ता, सर्वज्ञसिद्धिरनुमात्मतया प्रमाणम् ||३८७||
Jain Education International
३१
For Private & Personal Use Only
www.jainelibrary.org