________________
॥ श्रीन्यायसिन्धुः ॥ यद्वृद्धितोऽपचयवानिह यः प्रसिद्धो - ऽत्यन्तप्रकर्षगमने ननु तस्य तस्य । आत्यन्तिकक्षय इतः सकलार्थविज्ञाद्, रागादिदोषघटनाऽप्यतिदूरमार्छत् ।।३८८।। एतेन युक्तिनिकरोऽपि विभोः परस्य, सर्वज्ञतापनयनेऽभिमतो न युक्तः । तत्सम्मतं कथकपद्धतिमत्र युक्त्या - ऽऽनीयोपहन्ति जिनदर्शनविज्ञ इत्थम् ।।३८९।। नन्वप्रमाणकमिहाऽभ्युपगन्तुमर्ह, प्रामाणिकैः किमपि नो तत एव वाच्यम् । सत्त्वे प्रमाणमिह सर्वविदः किमस्ति, प्रत्यक्षमत्र लभते न निजस्वरूपम् ।।३९०।। यस्मात् परात्ममतिगोचरबुद्धिशाली, नाऽस्मद्विधोऽक्षजमतेः कथमप्यशक्तेः । अस्मद्विशिष्टजनुषां मतिरस्य चेत् त - च्छ्रद्धास्पदं जडमतिं विरहय्य कस्य ।।३९१॥ प्रत्यक्षपूर्वकतयैव न चाऽनुमानं, नो वाऽस्य साधकतया प्रथितोऽस्ति हेतुः । नैतादृशे तु विषयेऽस्त्युपमाप्रचारः, शब्दोऽपि नाऽत्र कुरुते मतिमुज्ज्वलाभाम् ।।३९२।। यस्माद् वचो भवति सर्वविदः प्रमाण - मेतादृशे तु विषये न तु चर्मदृष्टेः । सिद्धे तु सर्वविदि तद्वचनत्वसिद्धि - रन्योन्यसंश्रयघटा प्रकृते ततः स्यात् ।।३९३।। एकस्य सिद्धिरिह चेद् यदि भिन्नसर्व - ज्ञोक्तागमादपरतो ननु तस्य कस्मात् । तस्याऽपि भिन्ननिखिलार्थविदुक्तवाक्यात्, सिद्धिर्भवेद् यदि तदा सुदृढाऽनवस्था ।।३९४।। अन्योन्यवाक्यजमतेः प्रभवा न सिद्धि - रन्योन्यसंश्रयलतापरिवेष्टनात् स्यात् । स्याच्चक्रकस्तदतिरिक्तसमाश्रये तु, नैतावता नियतसर्वविदः प्रसिद्धिः ।।३९५।। ज्ञानं तथा निजगतं वचनेन सोऽपि, नोऽध्यक्षमन्यजनवृत्तितयाऽत्र कर्तुम् । सामर्थ्यवानिति न तत्समकालिकैश्च, ज्ञातो भवेन्ननु जनैरपि तत्त्वदृष्ट्या ।।३९६।। नो भिन्नकालपुरुषैर्व्यवधानभाग्भिः, सर्वज्ञता परगता विदिता ह्ययोग्या । तामन्तरा त्वनुपपन्नमिहाऽस्ति किञ्चि - नैवाऽर्थतोऽपि तव सिद्ध्यतु येन विज्ञ ! ॥३९७।। भावो ह्ययं भवति न प्रतिषेधदक्षा - भावप्रमाणविषयोऽस्य ततो न सिद्धिः । नैवोक्तभिन्नमिह तेऽपि मतं प्रमाणं, प्रामाणिकस्य स च केन प्रसिद्धिमेतु ।।३९८।। नोत्पत्तुमर्हति तथा सकलार्थबोधो, हेतुं विना नियतदेशकतादिहानेः । हेतुस्तु तस्य नयनादि यदीन्द्रियं स्यात्, प्रत्यक्षता ननु तदोपगता तव स्यात् ।।३९९।। तत्त्वे न तस्य सकलार्थप्रकाशकत्वं, नेत्रादिना नियमनाद् विषये स्वकीये । यस्मान्न चाक्षुषमतिः प्रतिबन्धकाना - मुच्छेदतोऽप्यविषयेऽत्र जनस्य दृष्टा ।।४००।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org