________________
॥ श्रीन्यायसिन्धुः ॥
यद्यन्यगोचरचरोऽपि भवेत् कदाचि - दक्षान्तरस्य विषयो न तदेन्द्रियाणि । कल्प्यानि नेत्रप्रभृतीनि बहूनि यस्मात्, स्पर्शन्द्रियेण सकलेन्द्रियकार्यभावः ।।४०१।। तस्माद् यदा नयनतोऽस्य मतिस्तदा नो, गन्धादिवस्तुविषया न च सर्ववित्त्वम् । अक्षान्तरादपि जनिर्यदि तस्य तत्रा - ऽप्यक्षान्तरस्य विषयो विषयो न युक्तः ।।४०२।। नो मानसं च बहिरिन्द्रियमन्तरेण, बाह्ये प्रवृत्तिमदतो न ततोऽपि तस्य । युक्ता जनिर्न च तथा विषयं विनैव, प्रत्यक्षबोध उपपद्यत एष विद्वन् ! ।।४०३।। नाऽलौकिको भवति गौतमसम्मतोऽपि, सम्बन्ध इन्द्रियगणस्य समस्तभावैः । प्रत्यक्षबोधजनकोऽभिमतो वुधानां, तत्त्वेऽथवा सकल एव न सर्ववित् ! किम् ।।४०४।। वाच्यत्वतः सकलमेव समानभावात्, सम्बद्धमत्र मनसो भवतां मतेन । तस्मात् समस्तविषयप्रतिभासनं किं, नाऽलौकिकाद् भवितुमर्हति सन्निकर्षात् ।।४०५।। लिङ्गादयं यदि भवेदनुमानरूपो, व्याप्तिग्रहः प्रथमतः सकलेषु वाच्यः । नाऽध्यक्षरूप इह सोऽपि भवेद्धि तस्य, लिङ्गान्तरप्रभवतैव मता त्वया स्यात् ।।४०६।। तत्राऽनवस्थितिलतापरिवेष्टनान्न, मुक्तिः कथञ्चिदपि ते भविताऽनुमायाम् । किञ्चाऽनुमामतिमतो यदि सर्ववित्त्व - मस्मादृशामपि कथं नहि सर्ववित्त्वम् ।।४०७।। वाच्यत्वतः सकलमेव भवेत प्रमेय - मित्यादिकानुमितिरस्ति न किं तथाऽपि । नाऽस्मादृशां यदि भवेदिह सर्ववित्त्वं, किं श्रद्धयाऽपि तव केवलया भवेत् तत् ।।४०८।। सादृश्यबुद्धिजनितोपमितेर्वलान्नो, सर्वज्ञता भवितुमर्हति पुंसि यस्मात् । सादृश्यगोचरतयैव मता बुधाना - मेषा न चाऽन्यविषया प्रमिताऽस्ति लोके ।।४०९।। प्रत्येकशः सकलवस्तुमतौ समर्थ - शब्दोऽथ कोऽपि नहि विद्यत एव लोके । अस्त्यागमः परमसौ बहुविस्तृत्वा - नाऽशेषतोऽध्ययनगोचरसञ्चरिष्णुः ॥४१०।। सर्वं विना किमपि नाऽनुपपन्नमर्था - पत्त्याऽपि सर्वविषयावगतिर्न युक्ता । नाऽभावमानविषयः खलु वस्तुराशि - स्तस्याऽसदर्थकतयैव यतः प्रसिद्धिः ।।४११।। नाऽभ्यासतोऽपि सकलावगमोद्भवः स्या - च्छक्तिं विहाय नहि सोऽपि प्रभुः क्रियायाम् । किं ताप्यमानमपि नीरमनेकशो वै, वह्नित्वमेति निजतत्त्वपरिक्षयेण ।।४१२।। नोल्लङ्घनं च शतशः क्रियमाणमेव - मात्यन्तिकं क्वचिदपि प्रविलोक्यतेऽत्र । व्यापारराशिसहकारिसमन्वयेऽपि, नेत्रेण सौरभमतेर्जननं न दृष्टम् ।।४१३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org