________________
३४
॥ श्रीन्यायसिन्धुः ॥
-
भ्रान्ति तथा परगतामवबोद्धुमीशो, भ्रान्तो भवेदपरथा नहि सर्ववित् स्यात् । ज्ञानं यतः स्वविषयेण विना कृतं न, बोधेऽवभासत इति प्रथितोऽत्र पन्थाः || ४१४ || प्रत्यक्षबाधिततयाऽप्यनुमा प्रतिष्ठां प्राप्नोति सर्वविदि नैव पराभ्युपेता । किञ्चानुमाऽपि परकल्पितपुंसि सर्व ज्ञत्वापवादकतयाऽप्रतिघाऽस्ति किं नो || ४१५ || पुंस्त्वादसावहमिवाऽल्पविदभ्युपेयो, नो सर्वविन्न च तथाऽऽगमसम्प्रणेता । वक्तृत्वतोऽहमिव सोऽपि च सर्वविन्नो, रागादिमानहमिवाऽयमपि प्रमाता ||४१६ || पूर्वापरौ न समयौ निखिलज्ञयुक्तौ, कालत्वतोऽभिनवकाल इव प्रसिद्धः । देशान्तरे प्रकृतदेश इवाऽस्ति नैव, सर्वज्ञ इत्यनुमितीरवधारयाऽन्तः || ४१७।। वक्तृत्वतो भवति तेन समानधर्मा, किं नाऽस्मदादिरित एव भवेच्च सोऽपि । अस्मादृशैश्च सदृशोऽल्पपदार्थवित्त्वात्, तस्मात् कथं भवति नोपमितेस्तु बाधा ||४१८ || शब्दस्त्वलौकिक इहाऽस्ति विधिप्रधानो, नो सिद्धिगोचरचरो न ततोऽस्य बाधः । किन्त्वस्मदादिरचिता वहवः प्रतीता स्तबाधका न भवतां श्रुतिगोचराः किम् ? ||४१९ || स्यात् सर्वविद् यदि तदा तव सम्मतोऽत्र, पञ्चप्रमाणविषयोऽपि भवेन्न चैवम् । तस्मान्न चाऽस्ति स इदं किमु बाधकं नो ऽभावप्रमाणमपि तद्विषयानुमायाः ||४२०|| किञ्चाऽस्य कीटमशकादिमतिः किमर्था, प्रेक्षावताऽपि भवताऽभिमताऽत्र पुंसः । सौख्यास्पदाभिमतसर्वमतिं प्रकल्प्य, नाऽनुग्रहः किमु कृतोऽस्य निजोपदेष्टुः ||४२१ ।। दुःखानुभूतिवशतः खलु दुःखभोगी, दुःखीति लोकसरणौ जनताप्रसिद्धः । दुःखं परस्य विशदप्रमया विजानन्, दुःखी भवेत् सकलविन्नहि किं तवाऽऽप्तः ||४२२|| इत्थं वदन् स्वगृह एव जनैरुपास्यो, मीमांसको भवतु नो बुधमण्डपेऽपि । वाङ्मात्रतोऽत्र नहि सिद्धिमुपैति किञ्चिद्, युक्तिर्न काचिदपि तेन सती प्रयुक्ता ||४२३|| प्रत्यक्षबुद्धिरिह नैव ममाऽपि मान्या, तत्खण्डनं क्षतिकरं न च सर्ववित्त्वे । नैवाऽनुमा तदुदयाऽपि च तत्र मानं, केनोपमानमिह मानतया प्रयुक्तम् ||४२४|| सामान्यतो भवति दृष्टमिहाऽनुमानं, तत्साधनाय निरुपद्रवयुक्तिसिद्धम् । ज्ञानप्रकर्षजनितो वचनप्रकर्षः, किं नाऽस्मदादिनियतो नियमो न येन || ४२५ || स्पष्टैकबोधविषया ननु सर्वभावाः, कस्याऽपि सातिशयवोधवतोऽत्र पुंसः । पञ्चाङ्गुलीवदभिधेयप्रमेयतादे - र्व्याप्तेर्न चाऽत्र विरहो न च दोषलेशः || ४२६ ।।
-
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org