________________
॥ श्रीन्यायसिन्धुः ॥ नो वायवो वरणकारिण आप्तमान्या - स्ते व्यञ्जकास्तव यतोऽभिमता वुधाग्र्य! । यद्व्यञ्जकं भवति तत्समजातिकं नो, दृष्टं क्वचिद् वरणकारितया च तस्य ||३६२ ।। शब्दे त्वयाऽऽवरणकारिण आदृताः किं, श्रोत्रेऽथवा यदि पुरस्सरकल्प इष्टः । तत्राऽपि किं वचनवद् विभवो मतास्ते, किं वाऽपकृष्टपरिमाणपवित्रिताश्च ।।३६३।। आद्ये लयो नहि भवेद् विभुतान्वितेषु, नित्यत्वमेव भवताऽऽदृतमत्र यस्मात् । शब्दोपलब्धिकथयाऽपि गतं तथा च, बाधिर्यमेव जगति प्रथितं न किं स्यात् ? ।।३६४।। अन्त्ये न चैकपवनेन विभोस्तु कादेः, स्यादावृतिर्बहव एव ततः प्रकल्प्याः । प्रत्येकमेव न तु तेषु प्रमाणमस्ति, तैरन्तराऽपि च गतिः खलु जन्यपक्षे ।।३६५।। स्याद् व्यञ्जकेन पवनेन विरोधिवायो - स्तद्देशगस्य विलये किमु सर्वदा नो । तत्रस्थतद्वचनबुद्धिरतोऽप्यनेके, कल्प्या गुरुत्वमधिकं किमतः परं स्यात् ।।३६६।। दोषस्त्वयं श्रुतिगतावरणेऽपि तस्मात्, कल्पोऽन्तिमोऽपि कथमत्र तवोपपन्नः । किञ्च क्रमोऽपि नहि युज्यत एव नित्ये, वर्णे द्विधा स हि यतोऽभिमतो वुधानाम् ।।३६७।। देशात् क्रमोऽविरलदेशसमाश्रितेषु, मूर्तेषु पुष्पनिकरेषु यतोऽत्र दृष्ट: । जन्येषु तन्तुवसनेषु च कालजन्यो, दृष्ट: क्रमस्तदुभयं प्रकृते न चाऽस्ति ।।३६८।। वायोर्यथैव गमनेऽपि न मध्यदेशे, स्वारम्भकावयवयोगविनाशजन्यः । नाशस्तथैव वचनस्य भवेन्न नाशो, विश्लेषतोऽवयवकस्य विशेषबन्धात् ।।३६९।। एतेन पौद्गलिकतोपगमे परेण, प्राप्तिःश्रुतेर्नहि भवेद् वचनस्य नाशात् । द्रव्यान्तरप्रबलयोगत इत्यपास्तं, वायोर्न किं तव मतेऽपि तथैव नाशः ।।३७०।। शक्तिग्रहोऽस्ति ननु यस्य न सोऽस्ति शब्द - स्तज्जन्यताऽभ्युपगमे व्यवहारकाले । यो वर्ततेऽथ स भवेन्न गृहीतशक्ति - स्तस्मान्न शाब्दमतिरार्हतसम्प्रदाये ।।३७१।। इत्यादिदोषघटनाऽपि परप्रयुक्ता, स्यात् तस्य येन न मता वचनेषु जातिः । कत्वादिका निखिलकादिगता तु भिन्ना - भिन्ना समानपरिणामतया मता यैः ।।३७२।। तेषां न दोषकणतोऽपि जिनानुगानां, स्पर्शो मते भवति पौद्गलिकेऽपि शब्दे । जाति विना नहि तवाऽपि घटादिकेऽर्थे, शक्तिर्मताऽनुगतजात्यभिधा प्रलापिन् ! ।।३७३।। (युग्मम्) शक्या न जातिरिह वाहनदोहनादि - कार्यान्वयापगमतो हि विशेषभिन्ना । आक्षेपतो भवति नैव मतिस्तु शाब्दी, नो लक्षणाऽप्यनुपपत्तिमतिं विनाऽर्थे ॥३७४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org