Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 64
________________ ॥ श्रीन्यायसिन्धुः ॥ किञ्चेष्टतादिकमपि प्रथितं न कस्मादिच्छादयोऽप्यनुमितेर्विषयास्ततः स्युः । ज्ञाता तथा भवति साऽनुमितौ समर्था, तत्राऽनवस्थितिरपर्यवसानतः स्यात् ||४५३ || व्याप्तिग्रहोऽपि च तया सह तस्य वाच्यः, सोऽपि प्रसिद्ध्यति न तामपरां विहाय । एषाऽनवस्थितिलता त्वपरोदिता स्यात्, तस्मात् कथं कथय तस्य तयाऽनुमाऽस्तु ||४५४ || ज्ञप्तिः फलं यदि भवेदनुमापकं सा, स्वेनैव सिद्ध्यति तदोत विभिन्नबोधात् । आधे तयैव निखिलो व्यवहार इष्टः स्यात् तेऽन्यवोधपरिकल्पनमर्थवन्नो || ४५५ || अन्त्ये ऽनवस्थितिनिपातभयान्न मुक्ति - र्ज्ञाता यतो भवति साऽनुमितौ तु हेतुः । व्यापारतोऽस्ति नहि कोऽपि विशेषलेश - स्तस्याः किमर्थमिह कल्पनमादृतं स्यात् ॥ ४५६ ॥ प्राभाकरोऽत्र विषये न कथाधिकारी, संवेदनं भवतु येन तदुक्तमिष्टम् । ज्ञानत्वमेव प्रमितित्वमनेन बोधे, प्रोक्तं भ्रमत्वमपरं न च तस्य किञ्चित् ||४५७|| भेदाग्रहः खलु प्रवर्तक इष्यते तै- र्भ्रान्तिस्थले परमसौ न विचारमार्गे । सुप्तस्य तेन नहि जायत एव यल- स्तुच्छस्ततो नहि स तेऽपि मते भवेच्च ||४५८ || भेदाग्रहो भवति ते ननु पर्युदास - वृत्त्या त्वभेदमतिरेव तथा च सिद्धा । भ्रान्त्यात्मिका मतिरिति स्वत एव नैव, बोधत्वतो भवति मात्वमतेः प्रसिद्धिः ||४५९ ॥ ज्ञप्तौ यथैव परतश्च भवेत् प्रमाणं, कार्ये तथैव परतो विनिभालनीयम् । प्रमात्वधिकृता प्रकृते ततो न स्याद्वादपक्षविमुखः परतोऽपि पक्षः || ४६० || वेदान्तमतखण्डनम् मीमांसके प्रतिहते न च सर्ववस्त्व द्वैतप्रवादिमतमप्यनुमोदनीयम् । युक्तिः समा तदुभयोर्हि निराक्रियायां, पूर्वप्रदर्शितदिशा त्ववधारणीया ||४६१ ॥ शून्यत्ववादिमतखण्डनदर्शितोक्त - नीतिस्तथा भवति तस्य निराक्रियायाम् । विज्ञानवादपरिमर्दनयुक्तिजालो - ऽप्यस्त्येव किञ्च तदुपज्ञप्रकारमार्गे ॥ ४६२ ॥ सर्वं सदेव हि विश्वमसत् तथा नो, आविद्यकं भवति किन्त्विह दृश्यवस्तु । एतच्च तैरुपगतं परमत्र तत्त्वं ज्ञात्वाऽपि नो विशदयन्ति तदेव चित्रम् ||४६३ || जात्यन्तरे भवति वस्तुनि नैव दोषः, प्रत्येकपक्षमवलम्ब्य यतोऽस्य वृत्तिः । यद् व्यावहारिकमिदं तव सत्त्वमिष्टं तत् पारमार्थिकतयैव विचारयाऽन्तः ।।४६४।। शून्यत्वमस्य जगतो न विना प्रमाणं, प्रामाणिकस्य निकटे तव सिद्धिमेति । प्रत्यक्षमानमिह सत्त्वप्रसाधकं न मिथ्यात्वसाधकतयाऽभ्युपगन्तुमर्हम् ||४६५ || Jain Education International For Private & Personal Use Only ३७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158