Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 63
________________ ३६ ॥ श्रीन्यायसिन्धुः ॥ साधर्म्यतो यदि भवेन्नहि सर्ववित् स, मीमांसकोऽपि तव जैमिनिरत्र न स्यात् । सामान्यतोऽथ नियमो वचनस्य चाऽस्ति, बुद्ध्यैव नाऽल्पविषयावगमेन विद्वन् ! ||४४०|| स्वात्मस्थितं ह्यनुभवन् ननु दुःखराशि, स्वाभेदतो भवति कर्मठ ! दुःखभोगी । अन्यात्मनिष्ठमवयन्नपि च प्रमाता, दुःखं कथं भवतु सर्वविदस्य भोक्ता ||४४१ ।। आप्तोक्ततागुणबलाद् वचनं प्रमाणं, प्रामाण्यसिद्धिरपि तत्र ततस्ततोऽस्तु । किञ्च प्रमाणमपि जैमिनितन्त्रसिद्धं नाऽस्ति स्वतो भवतु कस्य प्रमात्वमिष्टम् ||४४२॥ व्यापार एष कथितो ननु तैः प्रमातु- र्याथार्थ्यमर्थनियतं प्रथते हि तस्मात् । व्यापारयुक्त इह कार्यभवे समर्थो, हेतुर्न तं तु विरहय्य पटुः क्रियायाम् ||४४३|| नवीदृशो नियम आद्रियते भवद्भिर्व्यापार इष्ट इह हेतुरथाऽप्यहेतुः । आद्येऽनवस्थितिरथाऽनियमप्रसङ्ग, व्यापारतद्विरहकल्पनया भवेत् ते ||४४४॥ अन्त्ये स्वभावविलयोऽजनको यतो न, व्यापारतापरिगतो विबुधप्रसिद्धः । व्यापारभिन्नजनकस्य च तद्व्यपेक्षा, नो तस्य सेति यदि कोऽत्र विशेष इष्टः || ४४५ || नो तत्स्वभावशरणेन पदप्रसारो, युक्तोऽत्र युक्तिशरणैकप्रकल्प्यरूपे । प्रत्यक्षसिद्धिविषये खलु तत्र तस्या - ऽर्थापत्तितो भवति कल्पनमत्र नैवम् ||४४६|| व्यापार एष किमु जन्यतया मतस्ते, किं वा न जन्य इति नाऽत्र तृतीयकल्पः । आद्ये न हेतुमपेक्ष्य भवेच्च जन्म, निर्हेतुकस्य नियमो नहि युज्यते यत् ||४४७ || व्यापारयुक्त इह चेद् यदि तस्य हेतु - स्तत्राऽप्यपर्यवसितिर्भवतामवार्या । व्यापारमुक्तमपि तज्जनकं मतं चेत्, तस्यैव तर्हि नहि कल्पनमर्थवत् स्यात् ||४४८ || अन्त्ये सदैव विषयावगतिः प्रसक्ता, आत्मा तदन्वित इहाऽस्ति सदा प्रमाता । अन्धोऽपि पश्यतु घटादिपदार्थराशीन् नेत्रादिकं विफलमेव तव प्रसक्तम् ||४४९।। भट्टेन किञ्च स हि नेन्द्रियगोचरस्तु प्रोक्तोऽनुमाविषय एव मतस्तथा च । स्याज्ज्ञातताऽनुमितिहेतुरथाऽस्य किं वा ज्ञप्तिस्तु तेन जनिता प्रथमो न युक्तः ||४५०|| ज्ञानस्य बाह्यविषयेण न चाऽस्ति बन्धो, नो तं विना नियतबाह्यगता तु सा स्यात् । सम्बन्ध इष्ट इह चेत् तव कोऽपि तर्हि, किं ज्ञातताभ्युपगमेन निरर्थकेन || ४५१ || ज्ञानं च सर्वमिह साम्प्रतगोचरं न भूतं भविष्यदपि यद् विषयीकरोति । नो ज्ञातता भवितुमर्हति तत्र तस्माज्ज्ञानं प्रसिद्ध्यतु तयाऽनुमितेः कथं ते ।।४५२ || Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158