Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 61
________________ ३४ ॥ श्रीन्यायसिन्धुः ॥ - भ्रान्ति तथा परगतामवबोद्धुमीशो, भ्रान्तो भवेदपरथा नहि सर्ववित् स्यात् । ज्ञानं यतः स्वविषयेण विना कृतं न, बोधेऽवभासत इति प्रथितोऽत्र पन्थाः || ४१४ || प्रत्यक्षबाधिततयाऽप्यनुमा प्रतिष्ठां प्राप्नोति सर्वविदि नैव पराभ्युपेता । किञ्चानुमाऽपि परकल्पितपुंसि सर्व ज्ञत्वापवादकतयाऽप्रतिघाऽस्ति किं नो || ४१५ || पुंस्त्वादसावहमिवाऽल्पविदभ्युपेयो, नो सर्वविन्न च तथाऽऽगमसम्प्रणेता । वक्तृत्वतोऽहमिव सोऽपि च सर्वविन्नो, रागादिमानहमिवाऽयमपि प्रमाता ||४१६ || पूर्वापरौ न समयौ निखिलज्ञयुक्तौ, कालत्वतोऽभिनवकाल इव प्रसिद्धः । देशान्तरे प्रकृतदेश इवाऽस्ति नैव, सर्वज्ञ इत्यनुमितीरवधारयाऽन्तः || ४१७।। वक्तृत्वतो भवति तेन समानधर्मा, किं नाऽस्मदादिरित एव भवेच्च सोऽपि । अस्मादृशैश्च सदृशोऽल्पपदार्थवित्त्वात्, तस्मात् कथं भवति नोपमितेस्तु बाधा ||४१८ || शब्दस्त्वलौकिक इहाऽस्ति विधिप्रधानो, नो सिद्धिगोचरचरो न ततोऽस्य बाधः । किन्त्वस्मदादिरचिता वहवः प्रतीता स्तबाधका न भवतां श्रुतिगोचराः किम् ? ||४१९ || स्यात् सर्वविद् यदि तदा तव सम्मतोऽत्र, पञ्चप्रमाणविषयोऽपि भवेन्न चैवम् । तस्मान्न चाऽस्ति स इदं किमु बाधकं नो ऽभावप्रमाणमपि तद्विषयानुमायाः ||४२०|| किञ्चाऽस्य कीटमशकादिमतिः किमर्था, प्रेक्षावताऽपि भवताऽभिमताऽत्र पुंसः । सौख्यास्पदाभिमतसर्वमतिं प्रकल्प्य, नाऽनुग्रहः किमु कृतोऽस्य निजोपदेष्टुः ||४२१ ।। दुःखानुभूतिवशतः खलु दुःखभोगी, दुःखीति लोकसरणौ जनताप्रसिद्धः । दुःखं परस्य विशदप्रमया विजानन्, दुःखी भवेत् सकलविन्नहि किं तवाऽऽप्तः ||४२२|| इत्थं वदन् स्वगृह एव जनैरुपास्यो, मीमांसको भवतु नो बुधमण्डपेऽपि । वाङ्मात्रतोऽत्र नहि सिद्धिमुपैति किञ्चिद्, युक्तिर्न काचिदपि तेन सती प्रयुक्ता ||४२३|| प्रत्यक्षबुद्धिरिह नैव ममाऽपि मान्या, तत्खण्डनं क्षतिकरं न च सर्ववित्त्वे । नैवाऽनुमा तदुदयाऽपि च तत्र मानं, केनोपमानमिह मानतया प्रयुक्तम् ||४२४|| सामान्यतो भवति दृष्टमिहाऽनुमानं, तत्साधनाय निरुपद्रवयुक्तिसिद्धम् । ज्ञानप्रकर्षजनितो वचनप्रकर्षः, किं नाऽस्मदादिनियतो नियमो न येन || ४२५ || स्पष्टैकबोधविषया ननु सर्वभावाः, कस्याऽपि सातिशयवोधवतोऽत्र पुंसः । पञ्चाङ्गुलीवदभिधेयप्रमेयतादे - र्व्याप्तेर्न चाऽत्र विरहो न च दोषलेशः || ४२६ ।। - Jain Education International - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158