Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 59
________________ ॥ श्रीन्यायसिन्धुः ॥ यद्वृद्धितोऽपचयवानिह यः प्रसिद्धो - ऽत्यन्तप्रकर्षगमने ननु तस्य तस्य । आत्यन्तिकक्षय इतः सकलार्थविज्ञाद्, रागादिदोषघटनाऽप्यतिदूरमार्छत् ।।३८८।। एतेन युक्तिनिकरोऽपि विभोः परस्य, सर्वज्ञतापनयनेऽभिमतो न युक्तः । तत्सम्मतं कथकपद्धतिमत्र युक्त्या - ऽऽनीयोपहन्ति जिनदर्शनविज्ञ इत्थम् ।।३८९।। नन्वप्रमाणकमिहाऽभ्युपगन्तुमर्ह, प्रामाणिकैः किमपि नो तत एव वाच्यम् । सत्त्वे प्रमाणमिह सर्वविदः किमस्ति, प्रत्यक्षमत्र लभते न निजस्वरूपम् ।।३९०।। यस्मात् परात्ममतिगोचरबुद्धिशाली, नाऽस्मद्विधोऽक्षजमतेः कथमप्यशक्तेः । अस्मद्विशिष्टजनुषां मतिरस्य चेत् त - च्छ्रद्धास्पदं जडमतिं विरहय्य कस्य ।।३९१॥ प्रत्यक्षपूर्वकतयैव न चाऽनुमानं, नो वाऽस्य साधकतया प्रथितोऽस्ति हेतुः । नैतादृशे तु विषयेऽस्त्युपमाप्रचारः, शब्दोऽपि नाऽत्र कुरुते मतिमुज्ज्वलाभाम् ।।३९२।। यस्माद् वचो भवति सर्वविदः प्रमाण - मेतादृशे तु विषये न तु चर्मदृष्टेः । सिद्धे तु सर्वविदि तद्वचनत्वसिद्धि - रन्योन्यसंश्रयघटा प्रकृते ततः स्यात् ।।३९३।। एकस्य सिद्धिरिह चेद् यदि भिन्नसर्व - ज्ञोक्तागमादपरतो ननु तस्य कस्मात् । तस्याऽपि भिन्ननिखिलार्थविदुक्तवाक्यात्, सिद्धिर्भवेद् यदि तदा सुदृढाऽनवस्था ।।३९४।। अन्योन्यवाक्यजमतेः प्रभवा न सिद्धि - रन्योन्यसंश्रयलतापरिवेष्टनात् स्यात् । स्याच्चक्रकस्तदतिरिक्तसमाश्रये तु, नैतावता नियतसर्वविदः प्रसिद्धिः ।।३९५।। ज्ञानं तथा निजगतं वचनेन सोऽपि, नोऽध्यक्षमन्यजनवृत्तितयाऽत्र कर्तुम् । सामर्थ्यवानिति न तत्समकालिकैश्च, ज्ञातो भवेन्ननु जनैरपि तत्त्वदृष्ट्या ।।३९६।। नो भिन्नकालपुरुषैर्व्यवधानभाग्भिः, सर्वज्ञता परगता विदिता ह्ययोग्या । तामन्तरा त्वनुपपन्नमिहाऽस्ति किञ्चि - नैवाऽर्थतोऽपि तव सिद्ध्यतु येन विज्ञ ! ॥३९७।। भावो ह्ययं भवति न प्रतिषेधदक्षा - भावप्रमाणविषयोऽस्य ततो न सिद्धिः । नैवोक्तभिन्नमिह तेऽपि मतं प्रमाणं, प्रामाणिकस्य स च केन प्रसिद्धिमेतु ।।३९८।। नोत्पत्तुमर्हति तथा सकलार्थबोधो, हेतुं विना नियतदेशकतादिहानेः । हेतुस्तु तस्य नयनादि यदीन्द्रियं स्यात्, प्रत्यक्षता ननु तदोपगता तव स्यात् ।।३९९।। तत्त्वे न तस्य सकलार्थप्रकाशकत्वं, नेत्रादिना नियमनाद् विषये स्वकीये । यस्मान्न चाक्षुषमतिः प्रतिबन्धकाना - मुच्छेदतोऽप्यविषयेऽत्र जनस्य दृष्टा ।।४००।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158