Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 60
________________ ॥ श्रीन्यायसिन्धुः ॥ यद्यन्यगोचरचरोऽपि भवेत् कदाचि - दक्षान्तरस्य विषयो न तदेन्द्रियाणि । कल्प्यानि नेत्रप्रभृतीनि बहूनि यस्मात्, स्पर्शन्द्रियेण सकलेन्द्रियकार्यभावः ।।४०१।। तस्माद् यदा नयनतोऽस्य मतिस्तदा नो, गन्धादिवस्तुविषया न च सर्ववित्त्वम् । अक्षान्तरादपि जनिर्यदि तस्य तत्रा - ऽप्यक्षान्तरस्य विषयो विषयो न युक्तः ।।४०२।। नो मानसं च बहिरिन्द्रियमन्तरेण, बाह्ये प्रवृत्तिमदतो न ततोऽपि तस्य । युक्ता जनिर्न च तथा विषयं विनैव, प्रत्यक्षबोध उपपद्यत एष विद्वन् ! ।।४०३।। नाऽलौकिको भवति गौतमसम्मतोऽपि, सम्बन्ध इन्द्रियगणस्य समस्तभावैः । प्रत्यक्षबोधजनकोऽभिमतो वुधानां, तत्त्वेऽथवा सकल एव न सर्ववित् ! किम् ।।४०४।। वाच्यत्वतः सकलमेव समानभावात्, सम्बद्धमत्र मनसो भवतां मतेन । तस्मात् समस्तविषयप्रतिभासनं किं, नाऽलौकिकाद् भवितुमर्हति सन्निकर्षात् ।।४०५।। लिङ्गादयं यदि भवेदनुमानरूपो, व्याप्तिग्रहः प्रथमतः सकलेषु वाच्यः । नाऽध्यक्षरूप इह सोऽपि भवेद्धि तस्य, लिङ्गान्तरप्रभवतैव मता त्वया स्यात् ।।४०६।। तत्राऽनवस्थितिलतापरिवेष्टनान्न, मुक्तिः कथञ्चिदपि ते भविताऽनुमायाम् । किञ्चाऽनुमामतिमतो यदि सर्ववित्त्व - मस्मादृशामपि कथं नहि सर्ववित्त्वम् ।।४०७।। वाच्यत्वतः सकलमेव भवेत प्रमेय - मित्यादिकानुमितिरस्ति न किं तथाऽपि । नाऽस्मादृशां यदि भवेदिह सर्ववित्त्वं, किं श्रद्धयाऽपि तव केवलया भवेत् तत् ।।४०८।। सादृश्यबुद्धिजनितोपमितेर्वलान्नो, सर्वज्ञता भवितुमर्हति पुंसि यस्मात् । सादृश्यगोचरतयैव मता बुधाना - मेषा न चाऽन्यविषया प्रमिताऽस्ति लोके ।।४०९।। प्रत्येकशः सकलवस्तुमतौ समर्थ - शब्दोऽथ कोऽपि नहि विद्यत एव लोके । अस्त्यागमः परमसौ बहुविस्तृत्वा - नाऽशेषतोऽध्ययनगोचरसञ्चरिष्णुः ॥४१०।। सर्वं विना किमपि नाऽनुपपन्नमर्था - पत्त्याऽपि सर्वविषयावगतिर्न युक्ता । नाऽभावमानविषयः खलु वस्तुराशि - स्तस्याऽसदर्थकतयैव यतः प्रसिद्धिः ।।४११।। नाऽभ्यासतोऽपि सकलावगमोद्भवः स्या - च्छक्तिं विहाय नहि सोऽपि प्रभुः क्रियायाम् । किं ताप्यमानमपि नीरमनेकशो वै, वह्नित्वमेति निजतत्त्वपरिक्षयेण ।।४१२।। नोल्लङ्घनं च शतशः क्रियमाणमेव - मात्यन्तिकं क्वचिदपि प्रविलोक्यतेऽत्र । व्यापारराशिसहकारिसमन्वयेऽपि, नेत्रेण सौरभमतेर्जननं न दृष्टम् ।।४१३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158