Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 62
________________ ॥ श्रीन्यायसिन्धुः ॥ सामान्यतो भवति यो मतिगोचरः सो - ऽसाधारणेन मतिगोचर इत्यतोऽपि । सत्त्वादिना मतिगता ननु सर्वभावाः, कस्याऽपि बोधविषया नियतस्वरूपैः ।।४२७।। व्याप्तिग्रहोऽपि सुलभो मनसो हतो वा, किं वाऽन्यतोऽस्तु भवतामपि मान्य एषः । धूमानुमानमपि तेन विना कथं स्याद् ?, यत्रोभयोरिति गतिर्भवतैव दत्ता ।।४२८।। सिद्धार्थकस्य वचनस्य च पूर्वनीत्या, प्रामाण्यमत्र भवतामपि सम्प्रसिद्धम् । तत्त्वे च तस्य भवदागमतोऽपि सिद्धि - हस्तस्थरत्नमतिवत् किमु नाऽस्ति विद्वन् ! ।।४२९।। प्रत्यक्ष एव स च केवलवोध इष्टो, जैनैस्तदावरणकर्मलयोऽस्य हेतुः । नाऽक्षोद्भवत्वमिह लक्षणमस्य किन्तु, स्पष्टत्वमेव विशदीकृतमार्हतैर्यत् ।।४३०।। तस्माद् विकल्पनिकरो भवतोऽर्थवान्नो, हेतूद्भवत्वविषये जिनतन्त्रसिद्धः । स्वाभाविको हि गुण आत्मनि बोधरूपो, निःशेषकर्मविलये प्रथते विशुद्धः ।।४३१।। अभ्यासतो भवति नैव प्रकर्षनिष्ठा - ऽन्यौपाधिकस्य प्रकृते तु कथं न सा स्यात् । नैर्मल्यमम्भसि न किं कतकप्रयोगे - ऽत्यन्तप्रकर्षपरिणामि जनेन दृष्टम् ।।४३२॥ भ्रान्तिं तु यद्यपि परस्य स वेत्ति तेन, भ्रान्तत्वमस्य च तथाऽपि न युज्यते यत् । भ्रान्तेः प्रमाणविधयाऽवगतौ भवेत् तद्, भ्रान्तित्वतोऽवगमने तु प्रमातृतैव ।।४३३।। ग्राह्यांशतोऽपि प्रकृतेऽस्ति न तस्य भावो, भ्रान्तो तु तद्विषयताद्यवगाहनेऽपि । यन्नाऽस्ति यत्र ननु तस्य मतौ तु तत्र, तत्किं न तद्विषयताऽस्ति तदप्रमायाम् ।।४३४।। अध्यक्षबाध इह योग्यतया प्रसिद्धे, ग्राह्ये भवेन्नहि परस्तु परस्य योग्यः । त्वदर्शितानुमितितो न भवेच्च वाधा, नैकत्र दर्शनवलान्नियमो हि युक्तः ।।४३५।। मीमांसकत्वमपि जैमिनितोऽन्यथा स्यात्, पुंस्त्वादितोऽपहृतसत्त्वमदर्शनं किम् । रथ्यानरे भवतु नो नियमोऽत्र येन, कश्चिद् विशेष इह नैव निभालितोऽस्ति ।।४३६।। प्राभाकरोऽपि पुरुषत्वसमन्वयेन, मीमांसको नहि भवेत् स इवाऽल्पबुद्धिः । एतादृशानुमितयः स्ववधाय कृत्यो - त्थानं भवेयुरिति तद्धृदये कुरुष्व ।।४३७।। तात्कालिकैरविदिताखिलवेदतत्त्वे - तिौ बभूव तव जैमिनिरत्र यद्वत् । तद्वज्जिनोऽपि विदिताखिलवस्तुतत्त्वो, ज्ञातो विनेयभविकैरिह किं न मान्यः ? ||४३८।। व्याख्यातृतागुणबलेन यथा त्रिवेदी, वेदैकभागविदुषामपि जैमिनिर्वः । ज्ञातो बभूव किमु नोऽपि तथैव नोऽर्ह - त्सिद्धान्तदेशविदुषां विदितोऽखिलज्ञः ।।४३९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158