Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 56
________________ २९ ॥ श्रीन्यायसिन्धुः ॥ किञ्च प्रमाणमपरं यदि नैव किञ्चित्, संवादितादिकमपेक्षत आत्मसिद्धौ । मीमांसकादृत इवाऽस्तु तथागतोक्तः, प्रामाण्यभागिह तदागम आप्तमान्यः ।।३४९।। बुद्धोक्तवाक्यजनिते यदि न प्रमात्वं, बाधात् तदा भवतु तद्विरहेण बोधे । प्रामाण्यसिद्धिरिति किं परतो न सिद्धि - भङ्गयन्तरात् तव मता प्रमितौ द्विजाय ! ||३५०।। यस्मात् पृथक् तव मते विरहो न तुच्छो, बाधस्य किन्तु स भवेच्च तदन्यभावः । संवादिता भवतु वा गुणजन्यता वा, किं वाऽन्य एव परतः प्रमितिस्तु सिद्धा ।।३५१।। वेदापौरुषेयत्वापाकरणम् - कण्ठदितोऽक्षरजनिर्जनताप्रसिद्धा, तेषां ततिः कथमजन्यतयाऽभ्युपेया । नित्यत्वतो भवतु तेन प्रमाणभावः, कस्मात् त्वदागमगतः पुरुषापलापात् ।।३५२।। दोषाकलङ्कितमतिः पुरुषो न कोऽपि, तस्मात् त्वया श्रुतिरजन्यतयाऽभ्युपेता । प्रामाण्यरक्षणकृते न च सोऽपि कामः, सम्पत्स्यतेऽप्रमितिबुद्धिजनिप्रसङ्गात् ।।३५३।। नो सत्त्वमात्रत इह प्रभवन्ति शब्दाः, शाब्यां परन्तु समयग्रहसव्यपेक्षाः । सङ्केतकर्तृपुरुषा न च दोषमुक्ता - स्तस्मात् कथं कथय मानमतिः श्रुतेः स्यात् ।।३५४।। नैकान्ततो भवति कोऽपि विनाशधर्मा, नित्योऽथवा प्रमितिगोचरसञ्चरिष्णुः । अर्थक्रियाजनिरनित्यत एव नैवं, नो नित्यतो भवति किन्तु तदन्यतो यत् ।।३५५।। कण्ठत्थिता मरुत एव विचित्रशक्ति - सामर्थ्यतस्तव मते ध्वनिशब्दवाच्याः । ये व्यञ्जका अभिमता जनकत्वभाजः, काद्यक्षरस्य च भवन्ति त एव किं नो ।।३५६।। नित्यो विभुश्च तव सम्मत एष कादि - र्व्यङ्ग्यः कथं भवतु तैरविकारिरूपः । अव्यङ्ग्यरूपविगमे च कथं न जन्यः, पूर्वस्वभावविगमादपरस्य लाभात् ।।३५७।। व्यङ्ग्योऽप्ययं यदि तु देशत एव तर्हि, सर्वात्मना भवति देशगतोऽथ देशात् । आद्ये विभुत्वविलयो नियतैकदेश - स्थित्याऽन्तिमे किमनवस्थितिदोषमुक्तिः ॥३५८।। सर्वात्मना यदि तथाऽत्र मतोऽथ कादि - देशान्तरस्थपुरुषैरपि किं न तर्हि । तस्य श्रुतिर्भवतु वा निकटस्थितस्या - ऽप्यश्रावणं तदिव किं न तदेकभावे ।।३५९।। एकेन्द्रियग्रहणयोग्यतयाऽपि वर्णा, व्यङ्ग्या पृथङ् नियतवायुवलात् कथं स्युः । तत्त्वे समाधिकरणेषु विभिन्नतो न, व्यङ्ग्यत्वमत्र विवुधैरवलोकितं यत् ।।३६०।। तस्मात् कथं वद भवेन्न यदैकवर्णो - ऽध्यक्षप्रथामुपगतो निखिलोऽपि कादिः । तत्काल एव प्रमितेः पदवी प्रपन्नो, युक्तं न चाऽवरणकल्पनमेषु युक्त्या ।।३६१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158