Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 50
________________ ॥ श्रीन्यायसिन्धुः ॥ २३ . अन्त्ये विशेषविरहाद भ्रमतुल्यतैवा - ऽसम्बन्धतो भवति तेन हि पूर्वबुद्धेः । अन्त्ये विशेषविरहाद् भ्रमतुल्यतैव, संवादकात् किमपि न क्रियते यतोऽस्याः ।।२७२।। अर्थे फलं किमपि किञ्च करोति वोधो, नो वा करोति यदि किं व्यतिरिक्तमर्थात् । अर्थस्वरूपमुत वा प्रथमेऽनवस्था, पूर्वप्रदर्शितदिशाऽत्र दुरुद्धरैव ।।२७३।। अन्त्ये यथार्थजननं प्रमया तथैव, भ्रान्त्याऽपि किं न न विशेष इहाऽस्ति कश्चित् । बोधः फलं किमपि नाऽर्थगतं विदध्या - दन्त्ये यदा न नियमोऽपि तदा कथञ्चित् ।।२७४।। ज्ञाने घटाद्यपि करोति यदा विशेषो, भिन्नेऽनवस्थितिरिहाऽपि च पूर्वनीत्या । ज्ञानस्वरूपजनने न विशेष एव, कश्चिद् यतो भवतु ते नियमोऽर्थतोऽपि ।।२७५।। प्रामाण्यमर्थघटितं न विनाऽर्थसिद्धिं, ज्ञाने प्रसिद्ध्यति न साऽपि तमन्तरेण । प्रामाण्यबुद्धिमनपेक्ष्य प्रमा न मान्या, तत्त्वेऽप्रमाऽपि तव किं न प्रमाऽभ्युपेया ।।२७६।। प्रामाण्यबुद्धिरपि नैव प्रमास्वरूपा, स्वस्मिन् प्रमात्वमतिमङ्कगतां निवेश्य ।। किं त्वन्यया भवति साऽप्यतिरिक्तबुद्ध्या, सिद्धयेत् प्रमात्मकतयेत्यनवस्थितिश्च ।।२७७।। एवं भ्रमत्वमपि न प्रमितिं विनैव, भ्रान्तौ प्रसिद्ध्यति प्रमाऽपि तथाऽन्यथा स्यात् । इत्यादिदोषगणभीतिविविक्तरूपं, शून्यत्वमेव सकलानुगतं तु तत्त्वम् ।।२७८।। शून्यवादिमतखण्डनम् - एतन्न बौद्धपरिशीलितयुक्तिजालं, युक्तं स्वशिष्यगणमात्रमनोऽधिरूढम् । स्याद्वादलाञ्छितपदार्थतिरस्क्रियायां, सामर्थ्यलेशमपि नैव दधाति यस्मात् ।।२७९।। यं त्वं विचारमधिकृत्य जगद्व्यलीकं, बूषे स सँस्तव भवेदुत वा व्यलीकम् । आये तथैव न भवन्तु समस्तभावाः, किं सिद्धिभाज इतरेऽपि न शून्यता ते ।।२८०।। अन्त्ये स्वयं हसत एव विचारतो न, शून्यत्वसिद्धिरपि येन जगद् व्यलीकम् । प्रामाणिकैः सह कथाऽपि न युज्यते ते, कस्ते भवेच्च प्रतिमल्ल इहाऽल्पविज्ञ ! ।।२८१।। शून्यत्वगोचरप्रमा यदि सम्मताऽस्ति, मानं तदा तव मतेऽपि न शून्यतावत् । नो चेत् तदा प्रमितिगोचरचारिणी नो, स्याच्छून्यता जगति येन भवेत् प्रसिद्धा ।।२८२।। ज्ञानं विनाऽपि जगतः स्वत एव सत्त्वं, संवृत्तिसत्त्वमत एव न सम्मतं नः । ज्ञानानवस्थितिभयान्न ततोऽप्यसत्त्वं, जाग्रत्सु वस्तुषु भवेत् तव रोदनेन ।।२८३।। नाऽऽत्माश्रयो भवति बोधमतेः स्वतस्त्वे, प्रामाणिके विवुध ! दोषतयाऽभ्युपेयः । संवृत्तिसत्त्वमपि जैनमताऽवलम्वाद्, युक्तं न किं व्यवहृतेरुपयोगि लोके ।।२८४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158