________________
॥ श्रीन्यायसिन्धुः ॥
२३ . अन्त्ये विशेषविरहाद भ्रमतुल्यतैवा - ऽसम्बन्धतो भवति तेन हि पूर्वबुद्धेः । अन्त्ये विशेषविरहाद् भ्रमतुल्यतैव, संवादकात् किमपि न क्रियते यतोऽस्याः ।।२७२।। अर्थे फलं किमपि किञ्च करोति वोधो, नो वा करोति यदि किं व्यतिरिक्तमर्थात् । अर्थस्वरूपमुत वा प्रथमेऽनवस्था, पूर्वप्रदर्शितदिशाऽत्र दुरुद्धरैव ।।२७३।। अन्त्ये यथार्थजननं प्रमया तथैव, भ्रान्त्याऽपि किं न न विशेष इहाऽस्ति कश्चित् । बोधः फलं किमपि नाऽर्थगतं विदध्या - दन्त्ये यदा न नियमोऽपि तदा कथञ्चित् ।।२७४।। ज्ञाने घटाद्यपि करोति यदा विशेषो, भिन्नेऽनवस्थितिरिहाऽपि च पूर्वनीत्या । ज्ञानस्वरूपजनने न विशेष एव, कश्चिद् यतो भवतु ते नियमोऽर्थतोऽपि ।।२७५।। प्रामाण्यमर्थघटितं न विनाऽर्थसिद्धिं, ज्ञाने प्रसिद्ध्यति न साऽपि तमन्तरेण । प्रामाण्यबुद्धिमनपेक्ष्य प्रमा न मान्या, तत्त्वेऽप्रमाऽपि तव किं न प्रमाऽभ्युपेया ।।२७६।। प्रामाण्यबुद्धिरपि नैव प्रमास्वरूपा, स्वस्मिन् प्रमात्वमतिमङ्कगतां निवेश्य ।। किं त्वन्यया भवति साऽप्यतिरिक्तबुद्ध्या, सिद्धयेत् प्रमात्मकतयेत्यनवस्थितिश्च ।।२७७।। एवं भ्रमत्वमपि न प्रमितिं विनैव, भ्रान्तौ प्रसिद्ध्यति प्रमाऽपि तथाऽन्यथा स्यात् ।
इत्यादिदोषगणभीतिविविक्तरूपं, शून्यत्वमेव सकलानुगतं तु तत्त्वम् ।।२७८।। शून्यवादिमतखण्डनम् -
एतन्न बौद्धपरिशीलितयुक्तिजालं, युक्तं स्वशिष्यगणमात्रमनोऽधिरूढम् । स्याद्वादलाञ्छितपदार्थतिरस्क्रियायां, सामर्थ्यलेशमपि नैव दधाति यस्मात् ।।२७९।। यं त्वं विचारमधिकृत्य जगद्व्यलीकं, बूषे स सँस्तव भवेदुत वा व्यलीकम् । आये तथैव न भवन्तु समस्तभावाः, किं सिद्धिभाज इतरेऽपि न शून्यता ते ।।२८०।। अन्त्ये स्वयं हसत एव विचारतो न, शून्यत्वसिद्धिरपि येन जगद् व्यलीकम् । प्रामाणिकैः सह कथाऽपि न युज्यते ते, कस्ते भवेच्च प्रतिमल्ल इहाऽल्पविज्ञ ! ।।२८१।। शून्यत्वगोचरप्रमा यदि सम्मताऽस्ति, मानं तदा तव मतेऽपि न शून्यतावत् । नो चेत् तदा प्रमितिगोचरचारिणी नो, स्याच्छून्यता जगति येन भवेत् प्रसिद्धा ।।२८२।। ज्ञानं विनाऽपि जगतः स्वत एव सत्त्वं, संवृत्तिसत्त्वमत एव न सम्मतं नः । ज्ञानानवस्थितिभयान्न ततोऽप्यसत्त्वं, जाग्रत्सु वस्तुषु भवेत् तव रोदनेन ।।२८३।। नाऽऽत्माश्रयो भवति बोधमतेः स्वतस्त्वे, प्रामाणिके विवुध ! दोषतयाऽभ्युपेयः । संवृत्तिसत्त्वमपि जैनमताऽवलम्वाद्, युक्तं न किं व्यवहृतेरुपयोगि लोके ।।२८४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org