________________
२२
॥ श्रीन्यायसिन्धुः ॥ भ्रान्तिः प्रमेति नहि बोधगतो विशेषः, स्वप्ने प्रवोधसमये च यतो विशेषः ।। संवादितादिघटनाऽप्युभयोः समाना, नाऽऽपातमात्रमधुरा ह्यविवेकिनां किम् ? ॥२५९।। बोधो भ्रमो भवति बाधितगोचरत्वा - ज्ज्ञानान्तराद् बहुविधोऽत्र विकल्पजालः । ज्ञानान्तरेण किमु तस्य निजस्वरूप - हानिर्भवेत् किमुत तद्विषयस्य लोपः ।।२६०।। आद्ये विनाशजनकात् प्रमितेर्विनाशो, यद्वत् तथा भ्रममतेः स न बोधतोऽस्मात् । किं बाधिता पटमतिर्घटबुद्धितो नो, पूर्वा तथोत्तरजनेरित एव हेतोः ।।२६१।। लोपः सतोऽथ विषयस्य न शक्यतेऽन्त्ये, कर्तुं न कैश्चिदसतोऽपि न युज्यते सः । मिथ्यात्वमस्य स हि बोधयतीति चेत् स, तद्ग्राहकः किमु मतः किमु वाऽन्य एव ।।२६२ ।। चेद् ग्राहकः स्वविषयं स हि बाधतां नो, तत्त्वे भ्रमत्वमपि तस्य भवेत् कथं न ? । अग्राहको यदि तदाऽग्रहणान्न बाधा, स्याद् वा कथं निखिलमेव ततो न बाध्यम् ।।२६३।। मिथ्यात्वबोधनमपीष्टमभिन्नकाले, भिन्नक्षणेऽथ प्रथमो यदि सम्मतस्ते । नो तर्हि पूर्वमतिगोचरबाधनं स्या - दन्त्ये विभिन्नसमयाग्रहणान्न बाधा ।।२६४।। किं वा यथोत्तरमतेः प्रथमा मतिः स्याद्, वाध्या तथैव किमु नोत्तरधीश्च तस्याः । अन्योन्यगोचरविरुद्धमतित्वमाभ्यां, व्यावर्तते न हि यतः प्रथमस्य बाधः ।।२६५।। संवादनं भवति सत्यमतौ यथा ते, ज्ञानान्तराद् भवति तद्वदिहाऽपि किं नो । द्वित्वं न चन्द्रमसि तैमिरिका अनेके, पश्यन्ति किं ह्यभिलपन्ति न किं मिथस्ते ।।२६६।। जाग्रद्दशोत्थमतितो ननु यद्वदेव, स्वप्नोत्थधीविषयबाधनमस्ति तद्वत् । स्वप्नात् प्रबोधविषयस्य न बाधनं किं, नेते दशे अपि मिथो भवतो विभिन्ने ? ॥२६७।। यद्बाधकं तदपि वाध्यमबाधकं स्या - न्मानान्तराच्च तदबाध्यतया मतं चेत् । मानान्तरं तदपि वाध्यतया प्रतीतं, तत्साधकं भवति नेति दृढाऽनवस्था ।।२६८।। संवादकं दपि तत्र मतं भवेत् तत्, किञ्चित्करं किमुत वा न करोति किञ्चित् । आद्ये त्वभिन्नमुत वा व्यतिरिक्तमेव, संवाद्यबुद्धित इदं प्रकरोति तच्च ।।२६९।। संवाद्यबुद्धिजननं प्रथमे न युक्तं, संवादकात् क्वचिदसौ न च दृष्टपूर्वम् । अन्त्येऽतिरिक्तजननेऽपि न पूर्वबुद्धौ, व्यावर्तकं भ्रममतेरभवच्च किञ्चित् ॥२७०।। यश्चोपकार उपदर्शितबुद्धितोऽभूत्, संवाद्यबुद्ध्यसमकालतयैव नाऽस्याः । भिन्नः स वा किमपि तत्र करोति नो वा, तत्राऽनवस्थितिघटा प्रथमेऽनिवार्या ॥२७१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org