________________
॥ श्रीन्यायसिन्धुः ॥
किञ्चाऽलयाद् भवतु बोधत एव कस्मा - ज्ज्ञानं द्विधा तव प्रवर्तकमालयं च । तत्त्वेऽथ वा शबलवस्तु न किं त्वयाऽपि, तद्वजिनागममतं बहिरादृतं स्यात् ।।२४८।। नो सन्ततिर्भवति किञ्च मता तवैका, स्याच्चेद् विवाद इह नाम्नि तु केवलं स्यात् । वन्धो ! न मुक्तिरपि नो न च वासनादिः, सन्तानतस्तव मतो भविता तदानीम् ।।२४९।। तदुक्तमुदयनाचार्येण - न ग्राह्यभेदमवधूय धियोऽस्ति वृत्ति - स्तबाधने बलिनि वेदमये जयश्रीः ।।
नो चेदनिन्द्यमिदमीदृशमेव विश्वं, तथ्यं तथागतमतस्य तु कोऽवकाशः ? ।। शून्यवादिमतोपदर्शनम् -
सौत्रान्तिकोऽस्तु विमुखो विमुखोऽस्तु योगा - चारो हि तौ न सुगताभिमतार्थविज्ञौ ।। वैभाषिकोऽपि तत एव न युक्तवादी, किं शून्यता भवतु माध्यमिकैर्मता नो ।।२५०।। नाऽऽत्मा न बोध इह नैव घटादिबाह्यः, साकारतादिघटना कुत एव बोधे । सर्वे विचारपदवीमुपनीयमाना - स्तिष्ठन्ति नो यत इमे विबुधैस्तु युक्त्या ।।२५१।। संवृत्तिसत्त्वमुपगीयत एतदेषां, यद्व्यावहारिकप्रथा सकलाऽपि लोके । बाह्यो यथा भवति नैव धिया विना सन्, बुद्धिः सती नहि तथा स्वधियं विनैव ।।२५२।। अन्त्यस्य सत्त्वविगमो यदि बुद्ध्यभावात्, तत्पूर्वपूर्वमपि किं न भवेच्च शून्यम् । स्वेनैव सिद्धिरपि नाऽत्र निजाश्रयेण, बुद्ध्यन्तरानुसरणे त्वनवस्थितिः स्यात् ।।२५३।। ग्राह्योऽणुरूप उत वाऽत्र महान् घटादिः, किं वोभयं न प्रथमोऽत्र प्रतीयतेऽक्ष्णा । अंशादिवृत्तिविलयान भवेद् द्वितीयो, व्याघाततो नहि भवेच्च तृतीयपक्षः ।।२५४।। किं कारणं विषय इष्ट उताऽन्य एव, ज्ञानस्य तत्र प्रथमो यदि सम्मतस्ते । वाच्यस्तदा भवति सातिशयः स हेतुः, किं वा विनाऽप्यतिशयं चरमोऽत्र सन् नो ? ॥२५५।। तत्त्वे प्रथा भवति किं व्यवधानभाजां, हेतुत्वतो न विशदाक्षधियोऽविशेषात् । आधे यदि त्वतिशयोऽतिशयान्तरेण, किं नाऽनवस्थितिरपर्यवसानतस्तत् ।।२५६।। यद्यन्तरातिशयमेव भवेत् स हेतौ, सर्वत्र किं भवति न ह्यविशेषतस्तत् । द्वैतीयकेऽजनकमप्युपगम्यते चेद्, ग्राह्यं तदा न नियमोऽत्र धियां प्रकाश्ये ।।२५७।। किञ्च व्यवस्थितिरियं निखिलेषु मानात्, प्रामाणिकैरुपगता न तु बोधमात्रात् । मानान्तराद् भवति तस्य पुनः प्रसिद्धि - रेषाऽनवस्थितिलतार्थमतावना ।।२५८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org