________________
२०
॥ श्रीन्यायसिन्धुः ॥
नाऽनन्तधर्मघटनाऽभिमतैकरूपे - ऽप्यस्त्याश्रये तव यतोऽशविभागतः स्यात् । बोधेऽप्यबोध उत वाऽक्षणिकत्वमिथ्या - रोपादिकल्पनमिति प्रविचारयाऽन्तः ||२३५।। किञ्चाऽनुमानमपि नैव विभिन्नमर्थं स्वस्मात् प्रकाशयति येन ततोऽपि सिद्ध्येत् । ज्ञानं क्षणक्षयितया न च ते मते स्याद्, व्याप्तिप्रसिद्धिरपि सर्वसमन्वयेन ॥ २३६ ॥ एतेन तेऽनुमितितोऽनुमतं च बोधे, तादात्म्यमर्थप्रतियोगिकमप्यपास्तम् । व्याप्तिग्रहस्य विलयादखिलानुमाया, उच्छेद एव नयतस्तव सिद्धिमेति ॥ २३७॥ ज्ञानेषु चेद्यदि विभिन्नधियः प्रकाशो, बाह्येषु तर्हि न स किं नु मतोऽपि येन । द्वेषोऽपि तेषु न भवेत् तव निर्निमित्तो, जन्मान्धताऽपि तव नश्यतु बाह्यदृष्टेः ॥२३८॥ स्थूलो न बोध इह तेऽनुमतश्च किञ्च यस्मात् स्वलक्षणमणूपगतं त्वयैव । अण्वात्मकस्तु न कदाचिदपीक्ष्यते स, बोधः कथं भवतु बोधविभासिताङ्गः ।।२३९ ।। उत्पत्त्यवस्थितिविनाशसमन्वयेन सत्त्वं स्वरूपत इहाऽर्थगतं प्रसिद्धम् । ज्ञानं विनाऽपि न कथं व्यवतिष्ठतेऽर्थो, दृष्ट्याऽर्थसृष्टिपरिकल्पनमप्रमाणम् ||२४०|| योग्योपलब्धिविरहाद् विरहो घटादेः सिद्धिः प्रयाति न तु केवलबुद्ध्यभावात् । योग्यत्वमत्र प्रतियोग्युपलम्भकस्य, स्वव्याप्यभिन्ननिखिलस्य भवेच्च सत्त्वम् ||२४१|| एवं च सन्नपि घटोऽत्र यदा न दृश्यो ऽयोग्यत्वमेव तु तदाऽभ्युपगन्तुमर्हम् । नैतावता विरह एव भवेच्च योगा- चारप्ररूपितदिशा जगतोऽखिलस्य || २४२ ।। प्रद्वेष एष तव चेद् यदि बाह्यभावे, ज्ञाने क्षणक्षयनिरूपणमर्थवन्नो ।
आत्मा त्रिकालकलितो ननु बोधरूपो, वेदान्तिनामिव कथं न मते तवाऽपि || २४३ || सामर्थ्यतद्विरहरूपविरुद्धधर्मा ध्यासादभिन्नतनुरेष मतो न ते चेत् ।
ज्ञानं क्षणक्षयमपि प्रमितं त्वया नो, युक्तं विरुद्धघटनात इहैकरूपम् || २४४।।
"
Jain Education International
-
ज्ञानं स्वसन्ततिगतं विदधाति बोधो, नो भिन्नसन्ततिगतं तव सम्मतं तत् । इत्थं विरुद्धघटना क्षणिकेऽपि बोधे, किं स्वान्यसन्ततिसमाश्रयणान्न चाऽस्ति || २४५ ॥ स्वादर्शनान्न परसन्ततिरस्ति तर्हि तेनाऽस्य दृष्टिविरहान्न कथं हासत्त्वम् । संवेदनात् स्वत इहाऽस्य यदि प्रसिद्धिः, किं तर्हि तस्य तत एव भवेन्न सिद्धिः || २४६ || किञ्चाऽऽन्यसन्ततिलये सुगतोऽपि नो ते, सर्वज्ञ इष्ट उत वा निखिलोऽपि स स्यात् । ज्ञानं विलक्षणमथाऽस्य विनैव युक्त्या, नाऽन्यस्य चेतसि पदं विदधाति बौद्ध ! || २४७ ||
For Private & Personal Use Only
www.jainelibrary.org