________________
॥ श्रीन्यायसिन्धुः ॥
किञ्चास्ति मुक्तिरिति बोधत एव मुक्तिः, सम्पत्स्यते तव वृथा सुगतस्य सेवा । प्रेक्षावताऽपि सुगतेन वृथैव शास्त्रे, धर्मप्रदर्शनमकार्यपवर्गसिद्ध्यै ॥ २२२ ।। यद्वासनातिपरिपाकवशाद् विनाऽर्थं, ज्ञानादिभेद इह तेऽनुमतो न सोऽपि । युक्त यतो भवतु साऽपि कथं विचित्रा, बाह्यं विना न परिपाककथाऽपि तस्याः ।। २२३ ।। स्वप्नोपमं यदि तु बोधतयैव सर्वं ज्ञानं ततः सविषयं नहि तद्वदेव । इत्थं तदा तव भवेद् यदि बाधितार्था, जाग्रद्दशामतिरपीह न चैवमेषा ||२२४||
यः स्पष्टबोधविषयः स मृषैव बोध्यः, स्वप्नोपलब्धकनकादिपदार्थवच्चेत् । बोधोऽपि सिद्धिपदवीं न तदाऽत्र गच्छेत्, संवेदनाद् विशदतः स्वत इत्यनर्थः ॥ २२५ ॥ विज्ञानवादमवलम्ब्य तथा कथायां, वादी जयेन्न प्रतिवादिजनं कदाऽपि ।
वादी न चाऽस्ति प्रतिवाद्यपि नैव नो वा, मध्यस्थ इत्यपि विचारय बौद्ध ! चित्ते ||२२६।।
1
वैज्ञानिकं भवति सत्त्वमथाऽत्र तेषां नो पारमार्थिकमिदं तव सम्मतं चेत् । विज्ञानमत्र किमु सत्यतया मतं ते, किं वा भ्रमात्मकमिह प्रथमं यदीष्टम् ||२२७।। नाऽन्यत् तदा भवति सत्त्वमतो मते नो, नामान्तरं भवतु तच्च न तेन हानिः । द्वैतीयके तु निखिलोऽपि विनैव बाधां भ्रान्तः कथं भवतु बोध उपेय आप्तैः ||२२८|| अर्थो ह्यसँस्तवमतोऽथ च तेन वोधो ऽभिन्नः कथं भवतु वा किमु सोऽप्यसन् नो । अर्थोऽथवा भवतु सन् सदभेदवत्वा - न्नोऽभिन्नता सदसतोरुपपद्यते यत् ॥ २२९।। भिन्नं किमर्थमवगाहत एष बोधो ऽभिन्नं च वा न तदुभयव्यतिरिक्तमस्ति । आद्ये कथं न भुवनत्रयवर्तिभाव - सार्थप्रथा भवति ते व्यतिरिक्ततातः || २३०|| द्वैती तु बहिरर्थविलोप एव, विज्ञानवादिमतसेवनयाऽऽगतस्ते । किं वर्तमानमुत तद्व्यतिरिक्तमेवं, ग्राह्यं प्रकाशयति बोध इहाऽऽद्यपक्षे ॥ २३१ ।। आद्ये कथं न हि भवेन्निखिलस्य बोधो, देशान्तरस्थितिमतोऽप्यविशेषतो वः । नो वर्तमानविषया मतिरन्त्यपक्षे, इत्यादिदोषघटना तव किं न विद्वन् ! ||२३२ ।।
-
Jain Education International
१९
यो भासते स विषयो बुध ! नो मतोऽत्रा - ऽभिन्नोऽथ भिन्न इति वा नियमो न चाऽस्ति । स्याद् वर्तमानमथ वा विपरीतमेवा - ऽनेकान्ततः सुगतशिष्य ! कथं हि दोषः || २३३ || ज्ञानेऽपि वा भवतु किञ्च मतिः कथं ते, तादात्म्यतः क्षणिकतादिविशिष्टरूपे । तत्त्वे क्षणक्षयितया स्वत एव बोधः सिद्धो भवेदनुमितेरनपेक्षणं स्यात् ॥ २३४॥
For Private & Personal Use Only
www.jainelibrary.org