________________
१८
॥ श्रीन्यायसिन्धुः ॥ नीलादिता भवतु तेऽत्र कुतः प्रमाणाद्, ग्राह्ये न किन्तु मतिमात्रगतैव बौद्ध ! । साकारतादिघटनानियता न बाह्य - मर्थं विना नियतमज्ञ ! तवाऽपि बोधे ।।२०९।। यस्मात् पृथग् भवति यो नियमेन तस्माद्, भिन्नोपलम्भविषयः स निरीक्ष्यतेऽत्र । नीलादिकस्तु मतितो न कदाचिदेव, भिन्नोपलम्भविषयः स कथं तदन्यः ।।२१०।। इत्थं न चाऽनुमितिरत्र तव प्रमाणं, सुस्पष्टदृष्ट इह हि व्यभिचारदोषः ।। भिन्ना प्रभाऽपि नियमेन घटादिना यत्, सार्द्ध प्रकाशविषयो न पृथक्त्वतस्तु ।।२११।। किं वा न चित्रमतिरत्र पृथक् पदार्थात्, संवेद्यते भवतु येन न हेत्वसिद्धिः । नीलाद् विभिन्नतनुरेव यतस्तु पीता - कारो मतो स्फुटवपुः प्रथते न चैक्यात् ।।२१२॥ ज्ञानादभिन्नतनुता यदि चेत् तवाऽर्थे, पीतान्न नीलमपि भिन्नमभेदतः स्यात् । ज्ञानं यदेकमुभयादपृथक्स्वरूपं, चित्रं त्वयैव विनिभालितमत्र चित्रम् ।।२१३।। नो नीलपीतरचितव्यतिरिक्तचित्रा - कारोऽपि चित्रमतिगोऽत्र निरीक्ष्यते जैः । नीलादिभिन्नतनुतैव भवेच्च येन, ते चित्रबुद्धिनियता खलु चित्रताख्या ।।२१४।। अर्थक्रिया घटपटादिपृथक्स्वभावा - नैका विरुद्धघटनात् तत एव बाह्ये । भेदो यथा ननु तथा प्रतिभाससाङ्क - र्यापत्तितो न च कथं मतिगोऽपि भेद: ।।२१५।। किं नो घटोऽयमितिवत् तव सम्प्रदाये, ज्ञानं घटः पटमठविति वाग्विलासः । पूर्वः परोऽथ नियमो न च दृश्यते यो - ऽभिन्नो हि येन प्रथितश्च तयोः प्रयोगे ।।२१६।। तादात्म्यतो विषयता नियता मतेर्हि, ग्राह्यं घटादि यदि तेन मतेरभिन्नम् । सर्वज्ञता सुगततोऽपगता तदा ते, सर्वस्य चैक्यमुत वा तदभिन्नतातः ।।२१७।। नो लाघवाद् भवति मानबहिष्कृताद् वा, वस्त्वैक्यसिद्धिरिह येन तव व्यवस्था । तत्त्वे कथं घटपटादिपदार्थजातो, नैकस्वरूप इति किं न भवेत् प्रसङ्गः ? ।।२१८।। पूर्वं य एव भवता विनिभालितोऽश्वो, दृष्टोऽद्य सैव तु मयेति बहिष्पदार्थे । सञ्जायते मतिरसौ सदृशत्वतस्ते, सादृश्यमत्र मतितो न कथं विभिन्नम् ।।२१९।। नीलस्य बोधत इयं पृथगेव बुद्धिः, पीतत्वगोचरतयेति मतिस्तथा नो । विज्ञानतैव यदि सर्वपदार्थगा स्याद्, वाह्यक्षयाद् भवितुमर्हति तर्हि विद्वन् ! ।।२२०।। बुद्धोऽस्म्यहं परिजना मम सर्वबौद्धा, इत्यादिबुद्धिरिह चेद् यदि चाऽन्त्यजानाम् । किं तर्हि ते न गुरवो भवतां भवेयु - र्लब्धो महानिह गुणः सुगतेन शिष्यात् ।।२२१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |