________________
१७
॥ श्रीन्यायसिन्धुः ॥
बाह्यो यथैव प्रतिबिम्बति ते मतौ किं, तद्वन्मतिर्न प्रतिबिम्बति बाह्य एव । तत्र स्वभावमुररीकुरुषेऽथ किं नो, तेनैव नोऽप्यभिमता विषयव्यवस्था ।।१९६।। एतेन तार्किकमताद् विषयत्वबन्धाद्, ग्राह्याद् विभिन्नतनुतो विषयव्यवस्था । क्षिप्ता स्वभावशरणा यदि ते तदा स्युः, स्याद्वादिनां सुहृद एव न तद्विपक्षाः ।।१९७।। वेदान्तिनामपि मते विषयप्रदेशं, गत्वा मनोऽपि बहिरिन्द्रियकप्रणाल्या । साकारवृत्तिपरिणामभवे घटाद्या - कारत्वयोगि भवतीति न तच्च सत्यम् ।।१९८।। यस्माच्च तैरपि मता विषयव्यवस्था, साकारवृत्तिजनितैव परं च साऽपि । नो चेत् स्वभावशरणा व्यवतिष्ठते नो, तस्मिंस्तु नेत्रगमनादिककल्पनाऽलम् ।।१९९।। बौद्धोक्तवत् कपिलशिष्यनिभालितोऽपि, साकारवाद इह वृत्तिगतो न युक्तः । कूटस्थनित्यपुरुषोऽत्र न युक्तियुक्त - स्तत्प्रक्रिया भवतु येन प्रमाणसिद्धा ।।२००।। साकारबोध इह किञ्च मतोऽपि जैन - बौद्धप्रदर्शितदिशा न तु सोऽभ्युपेतः । ज्ञानं विशेषविषयं प्रतिपाद्यते यत्, साकारमेतदुपयोगतया प्रसिद्धम् ।।२०१।। साकारताविरहितं प्रवदन्ति बोधं, सामान्यगोचरमनल्पविदां वरिष्ठाः । यत्सोपयोग इह दर्शनसंज्ञया वै, नीतः प्रसिद्धिपदवीं जिनतन्त्रविज्ञैः ।।२०२।। अर्थाभिधानमतयो व्यवहारिभिर्य - च्चैकेन सद्व्यवहृतौ तु प्रयुज्यमानाः । शब्देन तेन नहि सिद्ध्यति बोधधर्मः, साकारताऽपि बुध ! तेऽनुमताऽत्र किन्तु ।।२०३।। साकारबोध इह यन न चाऽभ्युपेतः, शब्दाभिलाप्य इह तेन न किं मतः सः । ग्राह्यार्थशक्तवचनान्ननु येन तस्य, न स्याच्च बोध इह सद्व्यवहारयोग्यः ।।२०४।। एकाभिलापविषयत्वबलादभेदो, भेदेऽपि बोधबहिरर्थकयोमतोऽत्र ।
भेदेन सङ्घटितमूर्तिरभेद एव, संसर्गमात्रनियतो यत आर्हतानाम् ।।२०५।। वैभाषिक-योगाचारयोरपाकरणम् -
वैभाषिकः सुगतशिष्य इहाऽल्पविज्ञः, साकारताविरहितार्थमितिं यदाऽपि । बूते तदाऽपि न जिनागमनीतितस्तां, स्पष्टीकरोति तत एव बुधैरुपेक्ष्यः ।।२०६।। बोधं तदर्थमपि येन समानहेतु - सामग्र्यतः स समकालमुवाच बौद्धः । युक्तः स किं यत इह व्यतिरिक्तहेत्वो - भिन्नक्षणे तदुभयोर्जननं प्रसिद्धम् ।।२०७।। ग्राह्यं बहिः स्थितमबाधितबोधभास्यं, किं नर्तकीनयनचेष्टितमीक्ष्यते नो । साधारणं परिषदा तत एव योगा - चारप्रपञ्चितमतं न विचाररम्यम् ।।२०८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org