________________
॥ श्रीन्यायसिन्धुः ॥ विज्ञैरपि व्यवहृतौ ननु किं घटाद्या - कारा मतिर्नयनतो विशदावभासा । दीपैर्विना न भवतीति निगद्यते नो - ऽनाकारपक्ष इह तेन बुधैरुपेक्ष्यः ।।१८३।। स्वाकारतार्पकतयैव घटादयः स्युः, सौत्रान्तिकस्य च मते ननु सिद्धिभाजः ।
बाह्यानुरागविमुखीकृतचित्तयोगा - चारस्य तेऽपि नहि बोधविविक्तरूपाः ।।१८४।। बौद्धप्रतिविधानम् -
आपातमात्ररमणीयमिदं हि बौद्ध - सन्तानबालवचनं वचनीयमेव । स्याद्वादवादिन इहाऽपि महास्त्रमेष, स्याद्वाद एव विमुखीकुरुते विपक्षम् ||१८५।। साकारता मतिगता विषयव्यवस्था - हेतुर्मता भवति सा ननु तां विनाऽपि । नेत्रादिना नियमितानियतस्य बोधात्, तत्रैव तन्नियमनं च तथा स्वभावात् ।।१८६।। वस्तुस्वभाव इह पर्यनुयोगतो नो, हेयः स्वहेतुबलतोऽचलितस्वरूपः । किं नाऽन्यथा तव मतेऽपि भवेच्च नीला - कारोऽप्यतादृशतयेति परस्य प्रश्नः ।।१८७।। नीलाद् यथाऽयमभवन्नयनात् तथैव, स्वाकारतार्पकमभूनयनं कथं न । वस्तुस्वभावममलं शरणं विहाय, काऽन्या तवाऽपि गतिरत्र तथैव कल्प्ये ।।१८८।। साकारबोधमतिरस्ति नवा तथा ते, नाऽन्त्ये प्रसिद्धिरपि तस्य भवेत् कथञ्चित् । आद्येऽनवस्थितिमुखान्न भवेद् विमुक्तिः, साकारता यदि भवेन्ननु बोधबोधे ।।१८९।। साकारता न यदि तत्र तदा कथं स्याद्, बोधव्यवस्थितिकथाऽपि भवन्मतेन । किं वा तथैव न कथं विषयव्यवस्था, साकारताविरहितादपि बोधतस्ते ।।१९०।। साकारबोध इह किञ्च न चेत् पदार्थं, बाह्यं तवोपगमतो विषयीकरोति । सिद्धिस्तदा भवतु तस्य कुतो न चाऽर्था - पत्तेर्हि तस्य विषयीकरणं ततो नो ।।१९१।। किञ्चाऽनुमानत इयं न पृथक् त्वयेष्टा, व्याप्तिग्रहं तु विरहय्य न तस्य जन्म । व्याप्तिग्रहोऽप्यविषयीकरणे न तस्य, बाह्यप्रथाविलय एव भवेन्मते ते ।।१९२।। बिम्बानुमा भवति या प्रतिबिम्बनेन, तत्राऽपि बिम्बप्रतिबिम्बनभावबन्धः । आकार एष ननु तादृश इष्यते चेद्, बिम्बप्रसिद्धिरपि तर्हि तदन्यतः स्यात् ।।१९३।। यो वेद बिम्बमतिरिक्तमिहाऽनुबिम्बा - न्मानान्तराद् भवति तत्प्रतिबिम्बहेतोः । तस्यैव बिम्बविषयानुमितिर्न तेषां, साकारता निखिलबोधगता मता यैः ।।१९४।। बोधक्षणे क्षणिकवादिमते न सत्ता - कारार्पकस्य विषयस्य मता ततो नो । स्यादन्यकालगतयोर्मतिबाह्ययोस्ते, विम्बादिकल्पनकथाऽपि विचारमार्गे ।।१९५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org