________________
॥ श्रीन्यायसिन्धुः ॥
सूर्यांशवोऽथ यदि सन्निहिता रजन्यां, किं रूपगोचरमतिर्न भवेन्नराणाम् । नैवं कथं भवति तार्किक ! सूर्यरश्मौ, नोलूकपक्षिण इहाऽह्नि मतिर्विशुद्धा ।।१७१।। दीपो यथा भवति रूपमतौ समर्थ - स्तद्वत् तमोऽपि कथमस्य न तैजसत्वम् । रात्रिशरादि तदपेक्ष्य यतो रजन्यां, स्पष्टं विलोकयति तद् व्यभिचारि हेतुः ।।१७२।। नाऽभावता तमस आर्हतसम्प्रदाये, इष्टा तु पौद्गलिकताऽतितरादियोगात् । तेजोऽणुभिर्भवति तस्य जनिस्तथाऽस्मिन्, स्पर्शश्च शीतलतयाऽभिमतो बुधानाम् ।।१७३।। नो जातिभेद इह जैनमतानुगाना - मिष्टेषु पुद्गलतयाऽणुषु सम्मतो यत् ।
तेजोऽणवोऽपि तत एव भवन्ति शीता - स्तज्जं तमः पवनतोऽस्य मतिश्च शीते ।।१७४।। सविकल्पकव्यवस्थापनोपसंहारः -
तस्मान्न चाऽक्षिचरणानुमतोऽत्र शब्दो, नाऽऽकाश आश्रयतयाऽभिमतोऽस्य जैनैः । भिन्नाश्रितं जगदिदं न ततः कथं स्या - नेत्रोद्भवाऽपि सविकल्पनबुद्धिरेषाम् ।।१७५।। येनैव योऽत्र सहितोऽसहितोऽपि तेन, नैकान्ततः किमपि सम्मतमागमेऽस्मिन् । योऽनावृतः स तु न तेन भवेद् विशिष्ट, इत्यादि ते न वचनं वचनीयमेव ।।१७६।। प्राप्तप्रकाशपटु नेन्द्रियमत्र किञ्चा - ऽवष्टब्धदेशमतिरक्षभवा न किं स्यात् ? ।। आधारसङ्घटितमूर्तिरतोऽक्षजन्य, आधेय इष्ट इह भास्यतया च बोधे ।।१७७।। योग्यत्वमत्र फलगम्यमतः प्रतीतौ, यस्यैव यत्र विषयस्य भवेत् प्रकाशः । पूर्वः परो भवतु वा निकटोऽथ दूर - स्तस्याः स एव विषयः सविकल्पिकायाः ।।१७८।। तस्मात् कथं सकलपूर्वपरादिभावः, स्याद् गोचरोऽक्षजधियोऽथ च सर्ववित्त्वम् ।
किं वर्तमानमखिलं तव भासते नो, किं वा तथा निकटवर्तिसमस्तभावाः ? ||१७९।। साकारतावादिबौद्धपूर्वपक्षः -
नन्वेवमस्तु सविकल्पकबोधसिद्धिः, साकारताऽस्य किमु तद्विपरीतता वा । साकारता सुगतशिष्यमता तु तत्र, जागर्ति युक्तिनिवहानुगता न हेया ।।१८०।। आकारमुक्तमिह नैव निरीक्ष्यते य - ज्ज्ञानं तदजनकल्पितमेव सन् नो । साकारपक्षविमुखाद् विषयव्यवस्था, ज्ञानात् तथा न नियताऽन्यमते कथञ्चित् ।।१८१।। कुम्भः पटोऽयमिह नीलमियं च शुक्ति - रेषा नदी पनस एष इयं वनाली । इत्यादिवोधजनिता व्यवहारयोग्या, साकारवादिनि भवेद् विषयव्यवस्था ।।१८२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org