________________
॥ श्रीन्यायसिन्धुः ॥
साक्षान्न तस्य यदि किन्तु परम्परातः, सङ्ख्या तदाश्रयगता किमु हेतुगा सा । द्वित्वादिधीहि भवेत् प्रथमे द्वितीये, स्यादेकतामतिलयो बहुकारणोत्थे ।। १५८।। दूरादयं झटिति शब्द उपागतोऽयं, शाङ्खश्रुतिं च बधिरीकुरुते बलीयान् । शैले त्वयं प्रतिहतः पुनरेति कर्णं, द्वारादतोऽयमखिलो मम भाति नो ते ॥ १५९ ॥ इत्यादिधीर्भवति तत्र विना न कर्म, सत्त्वे च तस्य गुणता नहि युक्तिसिद्धा । सर्वा मतिर्मतिमतामुपचारतो नो, मुख्यात् तथाऽभ्युपगमे वद कोऽत्र दोषः || १६० || नाऽऽकाशरूपमिह तु श्रवणं मतं च तत्त्वेऽखिलस्य युगपत्पुरुषस्य बुद्धिः । शब्दे भवेद् व्यवहितेऽपि ततश्च शब्दो, द्रव्यं श्रुतिः परिचितैव तयोस्तु प्राप्तिः || १६१ ।। शक्तिस्तथाऽत्र वहिरिन्द्रियमात्रवृत्तिः, प्रत्येकमेव नियता जिनसम्प्रदाये । तस्याः क्षयाद् वधिरताद्युपपद्यतेऽत्र, नाऽदृष्टकल्पनभवोऽपि महान् प्रयासः ।।१६२ ।। तस्या बलान्नयनजा युगपन्मतिस्तु, सञ्जायते शशिनि शाखिनि चैव विद्वन् ! | संयोगो यदि भवेत् क्रमतस्तदानीं, चन्द्रे च शाखिनि मतिद्वयमेव नैका ||१६३ || चक्षुषस्तैजसत्वापाकरणम्
१४
नो रश्मिमन्नयनमस्ति कुतोऽपि मानात्, सिद्धं यतोऽत्र नयनात् तव निःसृतास्ते । चन्द्रं च शाखिनमपि प्रजवेन गत्वा, संयुज्यमानतनवो ह्यवभासयन्तु ।।१६४||
मध्ये रसादिषु भवेद् यदि रूपमात्र प्रोद्बोधकत्वत इदं ननु तैजसं ते । तस्माच्च दीपकलिकेव समस्ति रश्मि चक्रास्पदं तदपि तन्न विचाररम्यम् ||१६५ ।। प्रत्यक्षबाध इह पक्षगतो हि दोष - श्चक्षुर्न रश्मिसहितं क्वचिदप्यलोकि ।
योग्या न रश्मय इतीक्षणगोचरा नो चेत् तर्हि भास्करकरा अपि किं न रात्रौ ।।१६६ ।।
-
मार्जारचक्षुरिह बाह्यप्रकाशयुक्तं चक्षुष्ट्वतो भवति रूपमतौ समर्थम् । यद् दिवा मनुजनेत्रमिति प्रमाणं, किं नाऽस्त्यदृश्यरविरश्मिषु रात्रिगेषु || १६७ || उद्भूततापरिगताः स्वत एव ते चे - न्मार्जारचक्षुषि पदार्थमतौ समर्थाः । नो तादृशा मनुजचक्षुषि तेन तेषां रात्रौ न सूर्यकिरणस्य भवेद् व्यपेक्षा || १६८ ।। यद् यादृशं भवति दर्शनगोचरस्तत् त्वं स्वीकरोषि यदि तादृशमेव विद्वन्! । नेत्रे दिवा कथमदर्शनगोचरास्ते, रात्रौ न किं रविकरा अपि तादृशाः स्युः ।।१६९ ।।
Jain Education International
-
किं वा सुवर्णमपि नेत्रसमानमेवा ऽनुद्भूतरूपमपि ते न प्रकाशकं स्यात् । योग्यत्वमत्र शरणं यदि तैजसत्वं, व्यर्थं तदा नयनगं परिकल्पितं ते ।।१७० ।।
-
For Private & Personal Use Only
www.jainelibrary.org