________________
॥ श्रीन्यायसिन्धुः ॥
स्याच्चेदतीतविषये तदनागते वा, तहक्षजाऽपि मतिरस्तु ततश्च तेषाम् । पूर्वापरौ च भजनान्न विना विभिन्नौ, स्तो वर्तमानत इयं क्व तदा कथा ते ? ॥१४५॥ यद्याग्रहस्तव तयोश्च विभिन्नकाल - वृत्तित्वतो न विशदाभमतिस्तदानीम् । सर्वज्ञता सुगततोऽपहृता त्वयैवं, तात्कालिकान्यविषयावगतेरभावात् ॥१४६।। एतेन केवलविशेषणमन्तरैव, बोधो निरंशविशदो ननु वर्तमानम् । अर्थं प्रकाशयति नाऽन्यमिति प्रलापो -ऽप्यस्तङ्गतः सुगतशिष्यगणोपजीव्यः ।।१४७।। दण्डान्वितः पुरुष इत्यपि बुद्धिरक्ष्ण, एवं स्थितौ शबलवस्तुत एव युक्ता । सर्वस्य सा भवति किन्तु विवक्षितोऽर्थो, यः स्यात् स एव वचनप्रथितस्तु लोकैः ।।१४८।। चित्रात्मके घटपटादिपदार्थजाते, यस्यैव येन पुरुषेण कृता विवक्षा । तत्रैव तस्य पुरुषस्य वचोविलासो, ज्ञातेषु सत्स्वपि च धर्मगणेषु बौद्ध ! ॥१४९।। एतावतैव नियमो वचने न चाऽस्ति, बुद्धिस्तु सर्वविषयाक्षभवार्थजन्या । धर्मस्वरूपवदतोऽत्र मतश्च धर्मी, धर्मे विशेषणमपीति जिनानुगानाम् ।।१५०।। धर्मो यथैव न च धर्मिविभिन्नरूपो, धर्मी तथैव न च धर्मविभिन्नरूपः । एकान्ततो हि तत एव विशिष्टबुद्धि - रन्योन्यतोऽस्तु न च काचिदिहाऽस्ति हानिः ।।१५१।। एवं च मुग्धजनताऽपि विचित्ररूपं, पश्यश्च दण्डपुरुषद्वयमेव बद्धम् । पूर्वक्षणेऽपि नयनेन न वक्ति यत् तु, तत्राऽन्यहेतुविरहो न च बुद्ध्यभावः ।।१५२।। स्वात्मप्रतिष्ठितमिदं जगदुक्तवान् यत्, तद्युक्तमेव जिनतन्त्रसमाश्रयेण । भेदेऽप्यभेद इह यत्सकलेषु जैनैः, सत्त्वादिधर्मघटनाकृत उक्त एव ।।१५३।। या चाऽनवस्थितिघटाऽन्यसमाश्रितत्वे, प्रोक्ताऽत्र सूक्ष्ममतिना न च सा तु युक्ता । आकाश आश्रयतयैव मतोऽखिलानां, नाऽस्याऽऽश्रयो भवति कोऽपि कुतोऽनवस्था ।।१५४।। एकप्रदेशवति तत्र तदन्यदेशा - वच्छिन्न एष ननु तिष्ठतु तावताऽपि । साधारतानियम आहेतसम्प्रदाये, उक्तः परैर्निखिलभावगतोऽपि युक्तः ।।१५५।। नन्वत्र तार्किकमतेन विभुर्निरंशः, शब्दाश्रयः प्रथित एष न किं तवाऽपि ।
येनांऽशकल्पनपरिश्रमतोऽपि मुक्तिः, श्रेयस्करी नभसि ते भविता तदानीम् ।।१५६।। शब्दस्य पौद्गलिकत्वव्यवस्थापनम् -
शब्दो गुणो यदि भवेन्ननु युक्तमेतत्, स्यात् किन्तु पौद्गलिक एष मते जिनानाम् । सङ्ग्याक्रियादिमतिरत्र यतो गुणत्वा - भावप्रसाधनपरा विशदा न बाध्या ।।१५७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org