________________
॥ श्रीन्यायसिन्धुः ॥ यच्चैकदेश इह कार्यजनौ समर्थं, तत् सर्वदेश इत एव करोतु कार्यम् । नो चेद् विरुद्धघटनादिह चाऽपि भेद, एवं तवोपरि कथं न पतेत् प्रसङ्गः ।।१३२।। योऽयं क्षणः प्रकृतकालगतं पदार्थं, कर्तुं समर्थ इह सोऽन्यगतं तथा चेत् । कार्यं त्रिकालगमसौ जनयेत् तथा च, साधु क्षणक्षयमतं भवता न्यगादि ।।१३३।। यो वै क्षणः प्रकृतकालगदेशवृत्ति - कार्योदवे प्रभुरसौ यदि ते समर्थः । कार्यं त्रिकालगतदेशगतं विधातुं, नित्यं विभु प्रथितमेव तदा त्वयाऽपि ।।१३४।। पूर्वप्रसञ्जनभयाद् यदि तद्विरुद्ध - मिष्टं तदा क्षणगतेऽपि भवेच्च भेदः । तत्त्वेऽनवस्थितिघटा तव शून्यता वा, पक्षे क्षणक्षयकथा न तु सावकाशा ।।१३५।। इत्थं स्वबुद्धिविभवो ननु तार्किकेण, व्यक्तीकृतस्तु प्रतिवन्दिबलान्न तत्त्वात् । एकक्षणेऽपि बहुधर्मयुतं पदार्थं, यस्माद् विवेद न च सोऽपि कुतर्कमोहात् ।।१३६।। शक्तिः स्वरूपसहकारिविभेदतोऽत्र, द्वेधा मता घटपटादिपदार्थनिष्ठा । बौद्धोक्तदोषनिवहस्य कुतोऽवकाशः, स्याद्वादवादिनि वृथा प्रतिबन्दिचर्चा ।।१३७।। स्थैर्ये स्थिते क्षणिकताऽनुगते क्रियायाः, किं नोद्भवो न च विशिष्टमतिस्ततः किम् । संयोगतो विभजनाच्च तदुद्भवाद् वा, किं नाऽक्षजा भवतु धीर्विशदावभासा ।।१३८।। यद् वर्तमानमिह केवलमक्षबोधे, वस्तु प्रकाशत इति प्रतिपादितं तत् । ध्यान्ध्यं यतो नहि भवेत् तव केवलस्य, पूर्वापराद्यविषयीकरणेऽवभासः ।।१३९।। ऐक्यं यथाऽत्र प्रतियोग्यनुयोग्यपेक्षं, नो भासते तदुभयं विरहय्य बुद्धौ । भेदस्तथैव प्रतियोग्यनुयोग्यपेक्षः, किं भासतां तदिव केवलशब्दवाच्यः ।।१४०।। भेदः स्वलक्षणतयैव मतो हि तेन, तबुद्धितो यदि भवेत् स गृहीत एव । ऐक्यं स्वलक्षणतयैव मतं कथं न, तच्चाऽपि तर्हि तत एव गृहीतरूपम् ।।१४१।। सान्निध्यतो भवति चाऽक्षमतेविलासः, पूर्वापरौ न विषयीकुरुते ततः सा । इत्यादिकं तव मते न हि युज्यते यत्, सान्निध्यमेव तु न चाऽस्ति पृथक् पदार्थात् ।।१४२।। नैक्यत्वतो ग्रहणमत्र भवेत् तथात्वे, भेदत्वतो ग्रहणमप्यनुमोदितं किम् । धर्मिस्वरूपमुभयत्र समानमेव, तस्मात् कथं न सविकल्पकबुद्धिरक्ष्णः ।।१४३।। रूपे यथैव नयनस्य तथैव गन्धे, सान्निध्यमस्ति नयनान तु गन्धबुद्धिः । योग्यत्वमेव नियतं तत आर्हतानां, ग्राह्यस्वभावगमकं मतमिन्द्रियाणाम् ।।१४४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org